________________
अथ
शास्त्रार्थकलोपस्कृतः ।
बोधस्वरूप योग्यज्ञानविषयत्वाभावस्तदा
यागादिसमभिव्याहृतात्मनेपदा
दिज्ञानस्यापि तादृशबोधस्वरूप योग्यज्ञानविषयतिबाख्यातस्यैवाप्रसिद्धेः । कर्त्रादिविशेष्यक संख्यान्वय बुद्धित्वावच्छिन्न छन्न जन्यतानिरूपित जनकतावच्छेदकविषयित्वानिरूपकत्वमेत्र तादृशबोधाननुकूलत्वम् I चैत्रः पचतीत्यादिवाक्य घटक लिवादिविषयिता चैत्रादिविशेष्यक संख्यान्वयबुद्धित्वाच्छिन्नजनकतावच्छेदिका । तादृशान्वय बुद्धित्वावच्छिन्नं प्रति चत्रादिपदसमभिव्याहृतिवादिपदज्ञानस्य हेतुत्वात् | चैत्रेण पच्यते तण्डुल
इत्यादिवाक्य घटकतयादिपदविषयिता
समभिव्याहृततादृशपदज्ञानत्वेन
च न तादृशी ? चैत्रादिपदतादृशबुद्धित्वावच्छिन्नं प्रत्यहेतुत्वात् । न च चैत्रः पचत इत्यादौ चैत्रविशेष्यकाख्यातार्थ संख्यान्वयबोधोत्पत्त्या चैत्रादिपदसमभिव्याहृततयादिपदज्ञानत्वेन तादृशान्वयबुद्धित्वावच्छिन्नहेतुताऽक्षतै वेति, चैत्रेण पच्यते इत्यादिवाक्यघट कीभूततयादिपदविषयितापि तादृश्येवेति वाच्यम् ? चैत्रेण पचेत चैत्रः पच्यते इत्यादिवाक्याच्चैत्रादिविशेष्यकस्य भावनायाः संख्यायाश्चान्ययबोधस्यानुदयात् । तद्विशेष्यकतदुभयान्वयबोधे प्रथमान्तचै त्रादिपदसमभिव्याहृत बादिविकरणोत्तराख्यातपदज्ञानत्वेन हेतुत्वात्रेण पच्यते तण्डुल इत्यादिवाक्यघटकतादीनां तादृशसमभिव्याहारादिशून्यतया तद्विषयिताया अतादृशत्वात् । चैत्रः पक्ष्यते इत्यादितस्तण्डुलः पक्ष्यत इ. त्यादितश्चैत्र तण्डुलादिविशेष्यक संख्यान्वयबोधोत्पत्त्या चत्रः पक्ष्यते तण्डुल इत्यत्र उभयविशेष्यकसंख्यान्वयबोधौपयिकतादृशसमभिव्याहारज्ञानविषयतायाः पक्ष्यत इत्यादौ सत्त्वेन कर्तृकर्मणोस्तृतीयाद्वितीययोरप्रसकावपि न तादृशवाक्यं व्युत्पन्नाः प्रयुञ्जते । कर्त्तरि साक्षात्कर्मणि च द शितपरम्परया युगपद्भावनाविशेषणकान्वयबोधजनकताया आख्यातस्या
वा
व्युत्पन्नतया तादृशवाक्यादुभयविशेषण कान्वयबोधासंभवात् । नचाकाङ्क्षायोग्यतादिसत्त्वात्कथन्न तादृशान्वयबोध इति वाच्यम् ? अगत्या एकविधान्वयबोघेऽन्यविधान्वयबोध सामन्यास्तद्धटकतात्पर्यज्ञानस्य प्रतिबन्धकत्त्रोपगमात् । न च चैत्रेण तण्डुलः पच्यते चैत्रस्तण्डुलं पक्ष्यते इत्यादिवाक्यद्वयविषयकसमूद्दालम्बनदशायामपि उभयविधान्वयबोधानुपपत्तिरिति वाच्यम् ? तादृशैकविधान्वयबोघे तादृशान्यविधान्वयबोधपरत्येनागृह्यमाणतथाविधाख्यातधर्मिक प्रकृतान्चयबोध परत्वज्ञानस्य हेतु+ पक्ष्यते तण्डुल इत्यादिवाक्यान्तादृशद्विविधान्वयबोधवा
१९७
तया
चैत्रः
धात्वर्थी विशेषणम् कर्तृस्वकर्मत्वादिकञ्च विशेष्यमेव तयोरविवक्षणे भावप्रत्ययान्तार्थस्थल इति मनोरमो भावः ।