________________
व्युत्पत्तिवादः
१९६
नघटितायां घटादावेकत्वान्वयबोधस्य सामग्रयां सुपदत्वादिप्रकारक श्रीजन्योपस्थितेरन्तर्भावात्तादृशापत्तेरनवकाशात् । एवं तिबादिपदत्वप्रकारकज्ञानजन्योपस्थितित्वेन तच्छाब्दबोधहेतुत्वे मानाभाव इति ।
यसु तिबादेः संख्यानभिधायकत्वे चैत्रः पचति तण्डुलं चैत्रेण पच्यते तण्डुल इत्यादौ कर्तृकर्मत्राचकपदात्तृतीयाद्वितीययोरापत्तिः । कर्तृकर्मगत संख्याया अनभिधाने 'कर्तृकरणयोस्तृतीये' ति "कर्मणि द्वितीये" ति सूत्राभ्यां तयोरनुशासनात् ।
'नैयायिकम लकारस्य कर्तृकर्मावाचकतया तदनभिधानस्य द्वितीयातृतीयानियामकत्वासम्भवात् । न च कर्त्रादिगत संख्यानभिधानमेव पच्यते तण्डुल
कथं
कर्णादिवामकपदोत्तर तृतीयादिनियामकं, चैत्रेण इत्यादिस्थलेsपि लकारस्थ चैत्रादिगत संख्याभिधायकत्वादेकत्वत्वादिना एकत्वादिसामान्यस्यै वैकवचनाद्यभिधेयत्वादिति वाच्यम् ? यतस्तद्गत संख्यानभिधायकत्वं प्रकृते न तद्गतसंख्या निष्ठवृत्त्यनिरूपकत्वमपि तद्विशेष्यकसंख्या प्रकार कशाब्दबोधाननुकूलत्वमेव । तथा 'च कर्त्री
तु दिविशेष्यक संख्यान्वयबोधाजन कलकारादिसमभिव्याहृतकर्त्रादिवाचकपदात् तृतीयादयो भवन्तीत्यत्र तदनुशासनतात्पर्यम् । चैत्रेण पच्यते तण्डुल इत्यादौ चैत्रादिविशेष्यकं संख्यान्वयबोधकत्वं नाख्यातस्थ, आख्यातार्थभावनाया यत्रान्वयस्तद् विशेष्यकसंख्यान्वयबोधस्यैवाख्यातेन जननात्ताहशभावनान्वयबोधे विशेष्यश्च प्रथमान्तपदोपस्थाप्य एव । चैत्रः पचति तण्डुलमित्यादौ चैत्रादिः साक्षादेव भावनाविशेष्यः । चैत्रेण पच्यते तण्डल इत्यादौ तु परम्परया चैत्रादिनिष्ठभावनाजन्य फलशाली तण्डुल इत्याकारकबोधस्यैव तत्रोदयात् ।
तस्मात्तिबादेरपि संख्याबोधकत्वमावश्यकमिति । तन्न विचारसहम् ? तथा हि, कर्त्रादिनिष्ठसंख्यान्वयबोधाननुकूलत्वं यदि तादृशबोधोपधायकज्ञानविषयत्वाभाववत्त्वं तदा यादृशतिवादिज्ञानेन सह कार्यान्तरविरहात्तादृशबोधो न जनितस्तद्योगे तृतोयाद्यापतेः । यदि च ताशतन्न विचारसहमित्यनेन साकं सम्बन्धः । तदनभिधानस्येति - कर्तृकर्मानभिवानस्येति फलितार्थः । एकत्वादिसामान्यस्यैवेति । चैत्रेणेति - चैत्रान्विततृतीयाथैकत्वसंख्या लकारवाच्येति कर्तृगतसंख्याभिधायकत्वं युक्तमेवेति तत्त्वम् । तादृशबोधोपधायकेति — बोधोपधायकत्वञ्च बोधविशिष्टत्वम्, वैशिष्टयश्च अव्यवहितपूर्वत्वसम्बन्धेन ।
परम्परयेति - परम्परा च स्वजन्यफलवत्त्वसम्बन्धेन बोध्या । तदनभिधायकत्वमिति - कर्तृकर्मत्वानभिधायकत्वमिति तदाशयः । धात्वर्थविशेष्यस्येति-