________________
१९५
शास्त्रार्थकलोपस्कृतः। शासनमप्यक्तार्थे तात्पर्यप्राहकम्। एकद्विबहुशब्दोत्तरैकवचन द्विवचनबहुवचनानि च न संख्याबोधकानि, उद्देश्यतावच्छेदकविधेययोरक्येनकत्वान्वये आकाङ्क्षाविरहादिति, तदुत्तरप्रथमाविभक्तिः प्रयोगसाधुतामात्राय । नित्यबहुवचनान्तावादिशब्दपरं प्रथमाबहुवचनमपि किचिन्निरर्थकमेव, यत्रैकव्यक्तिमात्रतात्पर्येण तादृशशब्दः प्रयुज्यते तत्र बहुत्वान्वये योग्यताविरहात । यत्तु तद्गतगुणादि साधारणबहुत्वस्य तत्रान्वय इति । तन्न शोभनम् ? प्रकृत्यर्थताबच्छेदकव्याप्यपयोप्तिसम्बन्धेनैवानेकवृत्तिसंख्यान्वयस्य व्युत्पन्नतया ताहरासम्बन्धेन तथाविधबहुत्वान्वये योग्यताविरहात् । अन्यथोदासोनघटपटादिसाधारणबहुत्वस्याप्यन्वयसम्भवेन तद्गतगुणादिसाधारणबहुत्वानुधावनस्याकिश्चित्करत्वात् । अथाजहत्स्वार्थलक्षणया गुणादि साधारणधर्मावच्छिन्न एव प्रकृत्यर्थ इति चेतर्हि बहुत्वेन भासमानेषु गुणादिष्वपि पदार्थान्तरान्वयः स्यात् । तथा चापो द्रव्याणि, दारा अत्र गृहे सन्तोत्यादिवाक्यानामप्रमाणतापत्तिः । गुणादिषु द्रव्याभेदे गृहवृत्तितादेर्वाधात्। मुख्यार्थमात्रपरतादृशशब्दानां बहुवचनान्ततानुपपत्तेश्चेति न किंचिदेतत् । अबादिपदार्थे एकत्वद्वित्वान्वययोग्यतासत्त्वेऽप्यसाधुत्वादेव तदुत्तरमेकववनं न प्रयुज्यते इति ध्येयम् । ___ आख्यातैकवचनस्य संख्यार्थकत्वे विवदन्ते निष्कर्षानुसारिणः । घटो. ऽस्तोत्यादौ सुबेकवचनादेव संख्याबोधसंभवात चैत्रेण दृष्टो घट इत्यादिस्थलानुरोधेन तस्य तद्बोधकताया आवश्यकत्वात् । न चैकवचनत्वेनानुगतेनैकत्वशक्तत्याचिकवचनस्याप्येकत्ववाचकत्वमक्षतमिति । वाच्यम् ? एकवचनत्वस्यैकत्वशक्ततावच्छेदकतायाः प्रागेव निराकृतत्वात् । अस्तु वा तेन रूपेण तिङ कवचनस्याप्येकत्वे शक्तिस्तथापि तज्जन्यैकत्वापस्थितेः शाब्दबोधोपयोगित्वे मानाभावः। न हि सामान्यत एकवचनज्ञानजन्योपस्थितित्वेन तच्छाब्दबोधहेतुतासम्भवः । तथा सत्येकत्वेऽगृही. तसुपदवृत्तिकस्य पुसः सुपदप्रकृतिघटादिपदोपस्थाप्यघटादौ पटादिपदो. पस्थाप्यैकत्वाद्यन्वयबोधप्रसङ्गः किन्तु सुपदत्वादिप्रकारकज्ञान जन्यतदुपस्थितिवादिनैव ।
तथा सति घटादिपदोत्तरसुपदवादिरूपानुपूर्वो विशेषरूपाकाङ्क्ष ज्ञासंख्याविशिष्ट इत्यर्थः । आख्यातैकवचनस्येति-नन्वयम्बिचार आख्यातार्यवि. चारप्रकरण एव युक्ततर इति यद्यपि वक्तुं शक्यते तथापि स्वर्थतिबर्थविचारानुरोधेनात्र विचार इत्यभिधानात् । तादृशऽपोरिति--एको घटोऽस्तीतिशाब्दबोधाऽपत्तेः। यत्त्विति-अस्य