________________
१९४
व्युत्पत्तिवादः। यवाविज्यादौ। एतत्तत्वं प्रागेवाभिहितम् । विरुद्धसंख्यावच्छिन्नवाचकशतादिपदोत्तरविभक्तयुपस्थाप्या संख्या प्रकृत्यर्थतावच्छेदकसंख्या. यामेवान्वेति । यथा शतमेकं द्वे शते त्रीणि शतानोत्यत्र शतत्वादौ एकस्वद्वित्वबहुत्वानामन्वयः। अत एव च एकशतद्विशततात्पर्यण न शता. नीति प्रयोगः । तत्र प्रकृत्यर्थस्य शतस्य बहुत्वाद्यन्वययोग्यत्वेऽपि प्रकृत्यर्थतावच्छेदकशतत्वांशे बहुत्वाद्यन्वय एवं बहुवचनस्य साकाङ्कत्वात् । तत्र च योग्यताविरहात् । नचैकशतेऽपि नानापुरुषीयापेक्षाबुद्धिजन्यनानाशतत्वसंभवादेकशतनिष्ठशतत्वेऽपि बहुत्वान्वययोग्यताऽक्ष. तैवेति वाच्यम् ? परस्परसमानाधिकरणद्वयावृत्तिबहुत्वस्यैव शतादिपदोत्तरबहुवचनार्थत्वात् । तादृशबहुत्वस्य चैकशतादिवृत्तिनानाशतत्वादौ बाधात् । अथ वा तत्रापि बहुत्वमेव बहुवचनार्थः । परस्परसमानाधिकरणदयावृत्तिपर्याप्तिरेवाकाङ्कानिरूपकः सम्बन्धः । यत्त द्वे शते त्रीणि शतानीत्यादौ संख्यैव शतादिशब्दार्थः, न तु संख्येयं, संख्येयस्य तदर्थस्वे "विंशत्याद्याः सदैकचे सर्वाः संख्येयसंख्ययो" रित्यनुशासनविरोधात् द्विवचनादिसाधुतानुपपत्तेः, गवां शतानोत्यादौ षड्यान्वयानुपपत्तश्च ।
न चाभेदः षठ्यर्थः, तथा सति ब्राह्मणा दश इत्यत्र ब्राह्मणानां दशेत्यपि स्यात् । अस्माकं चादशतः सङ्खयाः सङ्खयेये वर्तन्ते, अतः परं सङ्खथाने सङ्खयेये चेत्यनुशासनादशादिशब्दानां शतादिशब्दवत्सङ्ख्यानार्थकत्वाभावादशत्वादिसङ्खथायाः पदार्थतावच्छेदकत्वेन तत्र षठ्यर्थसम्बन्धान्वयासम्भवेन न तथा प्रयोग इति । तदसत् । गवां शतानीत्यादौ संख्यायाः प्राधान्येम शतादिशब्दवाच्यत्वे गवां शतं दद्यादित्यादौ शतादिपदार्थस्य संख्याया दानादिकमंत्वान्वयायोग्यतया प्रामाण्यानुप. पत्तिः। गवां शतं शुलमित्यादौ संख्यायां शुक्लाद्यभेदान्वययोग्यताविरहात्तदनुपपत्तिश्च । तस्मादशादिशब्दा इव शतादिशब्दा अपि संख्यावच्छिन्नवाचका एव न तु धर्मिविशेषणतानापन्नस पावाचकाः । स्वाथैकदेशेऽपि सङ्ख्यायां स्त्रप्रकृतिकविभक्त्यर्थसयान्वयसाकाङ्कनयान्यप्रकृतिकषष्ठयर्थसम्बन्धान्वयसाकाङ्कतया तेषां सयानार्थकताप्रवादः, न तु दशादिशब्दानां तथात्वं दशादिब्राह्मणतात्पर्येण ब्राह्मणानां दशेत्यादिप्रयोगविरहादिति तेषां संख्येयमात्रवाचिताप्रवाद इति "विंशत्याथाः सदैकत्वे सर्वाः संख्येयसंख्ययोः । संरूपायां द्विबहुत्वे स्त" इत्यनु
आदशवस्संख्या इति-संख्यावाचकारशब्दा इत्याशयः। संख्येये इति.