________________
शास्त्रार्थकलोपस्कृतः
१९३ नैव सम पदार्थान्तरस्यान्वयः । यत्र कमात्रवृत्तिस्तथा तत्रै केनापि व्युत्पत्तिभेदावलम्बनात्कार्यकारणभाववैचित्र्याच्च सर्व समञ्जसमिपि व
दन्ति ।
अथ घटादिव्यक्तिभेदेनानयनकर्मता भिन्नेति प्रतिसन्दधानस्य पुंसो घटावानयतीति वाक्याच्छाब्दबोधानुपपत्तिः । तस्य कर्मतात्वावच्छे. देनाघेयतासंसर्गावच्छिन्नप्रतियोगिताकस्य द्वित्वाद्यवच्छिन्नघटाद्यभावस्य निश्चयसंभवात् । तस्य द्वित्वादिना ताशसंसर्गकघटादिविशिष्टधोविरोधित्वादिति चेन्न ? उसयत्वाद्यवच्छिन्नाभाववत्ताज्ञानमुभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गावगाह ज्ञानमेत्र प्रतिबध्नाति न तु केवलं विशेष्ये विशेषणमिति रीत्या जायमानमुभयत्वातिविशिष्टज्ञानम् । __ अतो विशेषदर्शिनां तादृशवाक्याद्दोषायत्तमाघेयत्वांशे. उभयत्वाद्यवच्छिन्ननिरूपितत्वावगाहि भ्रमात्मकज्ञानं न भवत्येव । अपि तु तदंशे तदनवगाहि प्रमात्मकं ज्ञानमिति उभयत्वावच्छिन्ननिरूपिताधेयत्वं चोभयादिवृत्तावेकस्मिन्धर्म एव न तु प्रत्येकमात्रवृत्ताविति कर्मत्वांशे ताहशाधेयत्वावगाहिज्ञानस्य भ्रमत्वमित्यवधेयम् । · संख्याश्च प्रकृत्यर्थतावच्छेदकगता: क्वचितप्रतीयन्ते । सम्पन्नौ मोहिरित्याशयेनाह यत्र कमात्रवृत्तिधर्म इति । कार्यकारणभाववैचित्र्यादिति ।।
ननु कीदृशमत्र कार्य कारणभाववैचित्र्यम् द्वित्वविशिष्टतद्देशवृत्तित्वप्रकारकघटवि. शेष्यकान्यपदार्थान्वयबुद्धित्वावच्छिन्नम्प्रति अत्र भूतले गृहे देशे इत्यादिसप्तम्यन्तपदसमभिव्याहृतद्विवचनान्तघटपदज्ञानं कारणम् । तथा द्वित्वावच्छिन्नाकाशनिष्ठविशेष्यताकान्यपदार्थप्रकारकान्वयबुद्धित्वावच्छिन्नम्प्रति अत्र गृहे भूतले इत्यादिसप्तम्यन्तप. दसभिव्याहृतद्विवचनान्ताकाशपदज्ञानं कारणम् । एवञ्चैकघटविशिष्टे देशे अत्र घटौ स्त इति न प्रयोगः । अत्राकाशाविति प्रयोगसिद्धिश्चेति तात्पर्यम् ।
विशेषदर्शिनामिति-- व्यक्तिभेदेन कर्मवम्भिन्नमितिनिश्चितज्ञानवतामित्यर्थः। नन्वेवं सिद्धान्ते "पदार्थःपदार्थेनान्वेति न तु पदार्थैकदेशेनेति" पूर्वोक्तव्युत्पत्तिविरोध इत्याशयवानाह एतत्तत्त्वम्प्रागेवाऽभिहितमिति-वेदाःप्रमाणं स्मृतयः प्रमाणमिति शाब्दबोधविचारप्रकरण इत्यर्थः ।
एकमात्रवृत्तित्त्वञ्च-स्वाश्रयनिष्ठभेदाप्रतियोग्याश्रयकत्वम् । यथा आकाशवस्य । अत्र भेदश्च व्यासज्ज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकत्वेन विशेषणीयः। स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्यतमयसम्बन्धेन भेदविशिष्टान्यस्वम् बोध्यम् । आकाशत्वादेर्जातित्वे 'व्यक्तरभेदइत्युदयनाचार्यव्याख्यानुसारेण बाधकञ्चैतत् ।
१३ व्यु०