________________
१९२
व्युत्पत्तिवादः । प्यताहशधर्मवत्त्वमपि विधेयसंसर्गतया भासते इति व्युत्पत्तिः।
व्याप्यत्वं च तद्वदन्यावृत्तित्वं व्यतिरेकिविधेयस्थले । साहशधर्मवत्वं चोहेश्यतावच्छेदकताघटकसम्बन्धन बोध्यम् । अत्र घटौ स्त इत्यादौ एतद्देशवर्तमानत्वादिरूपविधेयस्य तदन्यावृत्तित्त्वरूपव्याप्ति मच्चैतदेशस्यैकघटादिव्यक्तिमात्राधिकरणत्वे घटपटादिनिष्ठद्वित्वमेव घटत्वव्याप्यपर्याप्तिरूपोदश्यतावच्छेदकताघटकसम्बन्धावच्छिन्नतद्वत्त्वं च घटादौ बाधितमिति न ताशवाक्यस्य प्रामाण्यम् । अधिकरणस्य घटद्वयादिमत्त्वे च घटस्वादिव्याप्यं द्वित्वमेव तथेति घटत्वादिव्याप्यपर्याप्तिसम्बन्धेन तद्वत्वं घटादावबाधितमिति ताशवाक्यस्य प्रामाण्यंनिर्वहति __केवलान्वयिविधेयकस्थले च द्वित्ववाद्यवच्छिन्नव्यापकत्वमेव संसर्गघटकम् । केवलान्वयिनि तादृशव्यापकताया अक्षतस्वात् , न तु तत्तद्वित्वत्वावच्छिन्नव्यापकत्वमिति न पूर्वोक्तदोषावकाशः। घटावानयति चैत्र इत्यादौ चैत्रकर्तृकानयनकर्मत्वादिव्याप्यद्वित्वादिनिष्ठनिरूपकता. काधेयत्वादिसम्बन्धेन कर्मत्वादी घटादेरन्वयोऽव्युत्पन्नः । तेन चैत्रादौ एकघटादिव्यक्तिमात्रानयनकर्तृत्वे न तादृशप्रयोगः ।
द्वित्वादिमत्वं च प्रकारतावच्छेदकोभतघटत्वादिव्याप्यपर्याप्तिसम्बन्धेन । तेन चैत्रस्य पटादिसहितकघटादिव्यक्त्यानयनकर्तृत्वेऽपि न ताशप्रयोगः। एवमन्यत्राप्यूहनीयम् ।
यत्रानेकवृत्तिधर्मो द्विस्वान्वयितावच्छेदकतया भासते तत्रोभयादि.
श्यविधेयभावभेदवत् । संसर्गता च अवच्छेदकभेदाद् भिद्यते। एवञ्च तत्तद्वित्वनिष्ठाबच्छेदकतया परम्परया निरूपितायास्संसर्गताया अपि भेदाद् वाक्यमेदः प्रसिद्ध एवे. त्याशयः। व्यतिरेकिविधेयस्थल इति, केवलान्वयिविधेयस्थल इति वक्ष्यमाणग्रन्यः। । नन्वेकघटविशिष्टदेशेऽपि अत्र घटौ स्त इति प्रयोगापत्तिर्दुवारा, देशान्तरीयघटेऽपि एतद्देशवृत्तित्वव्याप्योद्देश्यतावच्छेदकवत्त्वस्य प्रसिद्धकालिकसम्बन्धेन विद्यमानत्वादि. त्याशयेनाह तादृशधर्मवत्वञ्चेति । एवमन्यत्राऽप्यूहनीयमिति ।
घटावानयति चैत्रःपटावानयति विष्णुमित्र इत्यादौ चैत्रादिकर्तृकानयनकर्मस्वव्याप्यबहुत्ववन्निष्ठनिरूपकताकाऽऽधेयत्वसम्बन्धेन कर्मत्वादी घटादेरन्वय ऊहनीय इति तात्पर्य्यम् । यत्राऽनेकवृत्तिधर्म इति अत्राकाशावित्यादौ योग्यताभ्रमवशाद् भ्रमात्मकबोधस्सार्वजनीनस्तमानेकवृत्तिधर्मस्मोद्देश्यतावच्छेदकत्वाऽभाषासत्संग्रहानाऽऽपत्ति- .