________________
शास्त्रार्थकलोपस्कृतः।
१९१ न ताशबोधतात्पर्येण ताशप्रयोगापत्तिरिति वाच्यम ! योग्यताभ्रमे. णाकाशावत्र स्त इत्यादिवाक्याद् द्विरवादिना एकव्यक्तिमात्रविषयकपदार्थान्तरान्वयबोधात्तादृशव्युत्पत्तेस्तन्निर्वाहककार्यकारणभावस्य । कल्पनासंभवात् । यत्त द्वित्वाद्यवच्छिन्नोद्देश्यताकबुद्धावुद्देश्यताबच्छेदकव्यापकता नियमतो विधेयसंसर्गे भासते इति व्युत्पत्तिा, ___यत्र चोद्देश्यतावच्छेदकविशिष्टाधिकरणाप्रसिद्धथा तद्व्यापकत्वमप्रसिद्धम तत्रापि खण्डशः प्रसिद्धानां तत्तद्धटकपदार्थानां विशेष्यवि. शेषणभावापन्नानां भानसंभवान्न पोतशङ्खावत्रेत्यादौ तादृशव्युत्पत्तिभङ्गः।
एवं चैकघटादिव्यक्तिमात्राधिकरणपरस्यात्र घटौ स्त इत्यादिवा. क्यस्याप्रामाण्यं सुघटमेव उद्देश्यतावच्छेदकोभूतघटमात्रवृत्तिद्वित्व. व्यापकतायास्ताहशवाक्यप्रतिपाद्याया विधेयसंसर्गे बाधादिति । तदपि तुच्छम् ? अत्र घटौ स्त इत्यादौ द्वित्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्वस्य द्वित्ववद्घटनिष्ठाभावप्रतियोगितानवच्छेदकत्व. स्य च तदधिकरणावृत्तिघटादिनिष्ठाभावप्रतियोगितावच्छेदकीभूते तत्त. विधेयसंसर्गतावच्छेदके बाधाद् घटद्वयाधिकरणपरताहशवाक्यस्याप्रामाण्यापत्तेः । तत्तद्वित्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकत्वस्य तत्तद्विधेयसंसर्गाशे भानोपगमस्तु न सम्भवति ? तत्तद्द्वित्वत्वेनानुपस्थितेः । न च तदवच्छिन्नस्य संसर्गतया भाने तेन रूपेणोपस्थिति पेक्ष्येति वाच्यम् ? तत्संसर्गावच्छिन्नतत्प्रकारतानिरूपित्त. तत्तद्विशेष्यताशालिशाब्दबोधपरमित्याकारकतात्पर्यज्ञाने
संसर्गस्य ।। विशेषणतया सद्भानिहाय संसर्गघटकोपस्थितेरपि शाब्दबोधात्प्रागावश्यकत्वात् । प्रकृतसंसर्गेण एकपदार्थविशिष्टापरपदार्थबोधपरत्वज्ञानस्य प्रकृतवाक्याथेविषयकतया प्रागसम्भवेनोपदर्शिततात्पर्यज्ञानस्यैव शाब्दधीहेतुत्वोपगमात् । एवं वाक्यार्थघटकसंसर्गस्थाननुगमे घटौ स्त इत्यादौ वाक्यभेदप्रसङ्गाश्च ।
अत्रोच्यते-व्यासब्यवृचिधर्मावच्छिन्नोद्देश्यताकशाब्दबुद्धौ स्वव्यातदुत्पत्तिसत्ताचर्चेति हृदयम् । खण्डश इति--एवश्च निरूप्यनिरूपकभावाऽऽपन्नविषयतानिरूपितत्वस्य संसर्गतायां विद्यमानत्वेनानुपपत्तिविरहात् ।। . नन्वस्तु तात्पर्यशानस्य हेतुत्वं परन्तु तत्तद्वित्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्वस्य संसर्गविघया विधेयप्रतियोगिकसंसर्गे प्रतीतो सत्यां वाक्यमेदो भविष्यत्येवेत्यत आह एवमिति । संसर्गतामेदेऽपि वाक्यभेदो भवति उद्दे