________________
१९०
व्युत्पत्तिवादः तथा सत्युक्तयुक्त्या एकैकचैत्रमैत्रादितात्पर्येण तथाप्रयोगानुपपत्तेः । आख्यातोपस्थापितद्वित्वादिकं चोभयादिरूपान्वयितावच्छेदकावच्छिन्न एवान्वतीति व्युत्पत्तिः । तेनोक्तप्रयोगदर्शनात् क्रियापदस्य विशेष्यवा. चकपदसमानवचनकत्वानियमेऽपि घटद्वयादितात्पर्येण घटस्तिष्ठतः इत्या. दयो न प्रयोगाः। एकवचनान्तं क्रियापदं च तादृशविशेष्यवाचकपदप्रयोग ए साधुः । घटास्तिष्ठतोत्यादयो न प्रयोगाः।। ____ अथैकघटादिव्यक्तेरेतद्देशवृत्तितादशायामत्र घटौ स्तः घटाः सन्तीति कथं न प्रयोगाः, घटादौ पटत्वादिव्याप्तिविशिष्टपर्याप्तिसम्बन्धन द्विस्वादेः स्वरूपादिसम्बन्धेन तहेशवृत्तित्वाश्रयत्वादेश्च सत्त्वात् । न च द्वित्वेनोपस्थितयोंईयोरेव व्यक्तथोरेवं बहुत्वेनोपस्थितासु बहुषु व्यक्तिषु विधेयान्वयाद् व्यक्तयन्तरेष्वेतहेशवृत्तित्वाश्रयत्वादिबाधान्न तादृशप्रयोग इति वाच्यम् ? ___ व्यक्त्यन्तरेऽयोग्यतया तादृशविधेयानवगाहिन एकघटे तदवगा. हिनो बोधस्योत्पत्तौ बाधकाभावात् । तथा तात्पर्यण तथा प्रयोगस्य दुर्वारस्वात् ।
न च व्यासज्यवृत्तिधर्मो यत्रान्वयितावच्छेदकस्तत्र यावत्सु अन्वयितावच्छेदकस्य पर्याप्तिस्तावतामेव पदार्थान्तरेणान्वय इति व्युत्पत्तिस्तनिहाय च तादृशधर्मावच्छिन्न इतरान्वयबोधजनकसामग्या उभयादिविषयकपदार्थान्तरान्वयबुद्धित्वमेव जन्यतावच्छेदकं वक्तव्यमिति द्विस्वादिनैकपदादिमात्रविषयकैतद्देशत्तित्वाद्यन्वयबोधो न संभवतीति समूहालम्बनात्मक एव बोधः। परम्परयाऽपि जलपदप्रयोज्यगन्धपदप्रयोज्यविषयतयोनिरूप्यनिरूपकभावो नास्त्येवञ्च सामर्थ्याऽभावात्कथं समास इत्याशयेनाह जलपृथिव्योरिति ।
ननु चैत्रो मैत्रश्च गच्छत इत्वादावपि पूर्वोक्तप्रकारेण चैत्रमैत्रपदयोस्सामर्थ्यसत्त्वेन द्वन्द्वसमास एव आपतेत् । एवञ्च चैत्रमैत्री गच्छत इत्येव प्रयोगो युक्त इत्याशयवानाह चैत्रो मैत्रश्चेति । विभाषाधिकारेण समासस्य वैकल्पिकत्वेन चैत्रो मैत्रइतिप्रयोगस्याऽपि सौष्ठवात् । अर्थकघटादिव्यक्तेरिति । ___ द्वित्वेनोपस्थितयोरित्यस्य शाब्दबोधे द्विस्वप्रकारेण भासमानयोरित्यर्थः । तथाप्रयोगस्येति । एकस्मिन् घटे एतद्देशवृत्तित्वान्वयतात्पर्येणात्र पटौ स्तः घटास्सन्तीति प्रयोगस्येति मानसम् । तादृशधर्मावच्छिन्न इति व्यासज्यवृत्तिधर्मावच्छिन्न इत्याशयः। बुद्धित्वमेव जन्यतावच्छेदकमिति-तथाचोभयत्वाश्रयीभूतयत्किचिद्विशेष्यकपदार्थान्तरान्वयबुद्धित्वावच्छिन्नम्प्रति तादृशबोधसिद्धये कारणाऽभावान्न