________________
शास्त्रार्थकलोपस्कृतः विशिष्टपर्याप्तेः संसर्गतानियमेन एकैकधवखदिरादितात्पर्येण तथा प्रयोगासम्भवात् । धवखदिरावित्यादिसमासोत्तरद्विवचनेन धवत्वखदिरस्वाद्यवच्छिन्ननानाविशेष्यतानिरूपितैकद्वित्वादिप्रकारताशालि ज्ञानमेव जन्यते। तादृशवाक्यजन्यबोधस्य समूहाटम्बनानात्मकतया विशेष्यताभेदेन प्रकारताभेदाभावात्। यथा हि समूहालम्बनानात्मके खड्गीचैत्रः कुण्डलीत्याकारकनानाविशेषणकैकविशेष्यकक्षाने नानाप्रकारतानिरूपिता एका विशेष्यता तथा तथाविधे धवस्खदिरावित्याद्याकारके नानाविशेष्यकैकविशेषणकज्ञाने विशेष्यताभेदेऽप्यभिन्नैव द्वित्वादिप्रकारता, अन्यथा समूहालम्बनतस्तद्वैलक्षण्यानुपपत्तेः। समासघटकघवखदिरादिपदानामेकवाक्यतानुपपत्तेश्च । तत्प्रयोज्यविषयतया साक्षात्परम्परया वा निरूपिता या विषयता तत्प्रयोजकत्वस्यैव तदेकवाक्यतापदार्थत्वात् । __न चैतादृशैकवाक्यताविरहेऽपि क्षतिविरहः ? तथा सति समासस्यैवानुपपत्तेः। अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ राजपुरुषपदादीनां समासवारणाय समर्थपदानामेव समासानुशासनात् सामयस्य च निरुक्तकवाक्यतारूपत्वात् । जलपृथिव्योः स्नेहगन्धावित्यादितोऽपि न 'जले स्नेहः, पृथिव्यां गन्धः, इत्याकारकसमूहालम्बनबोधः। किन्तु तद्विलक्षणो द्वित्वादिनिष्ठकप्रकारतानिरूपितजळत्वपृथिवीत्वाद्यवच्छिन्नविशेष्यतात्मक प्रकारताद्वयनिरूपिताधेयत्वप्रकारतानिरूक्तिं यद्धर्मितावच्छेदकद्वित्वादिनिष्टकप्रकारतानि रूपकं स्नेहत्वगन्धत्वाचवच्छिन्न.. विशेष्यताद्वयं तद्वानिति, अतो न कुत्राप्येकवाक्यतामङ्गः।।
चैत्रो मैत्रश्च गच्छत इत्यादावाख्यातार्थद्विस्वादिप्रकारेण भासमाने चैत्रमैत्रोभयादौ गमनाश्रयत्वाद्यन्वयेन निरुक्कैकवाक्यतासंभवेपि समासविधेर्विभाषाधिकारीयत्वादसमासः । तत्र विशेष्यताभेदभिन्नद्वित्वनिष्ठप्रकारताद्वयप्रतियोगी समूहालम्बनात्मकबोध इति तु न सम्यक् ? वित्यत्रोद्देश्यताया धर्मद्वयावच्छिन्नत्वेऽपि वस्तुत एकैवेति उद्देश्यतोभयवृत्तिरेकैव । तदवन्छेदकताश्रयवदन्य एव न धवो न खदिर इतिकेवलपर्याप्तेस्संसर्गत्वे न कोऽपि विवादः। __ आकाशाविस्यत्र उद्देश्यतावच्छेदकतानिरूपकोद्देश्यता आकाशवृत्तिः, तदवच्छेदकताश्रयवदन्यो घटादिस्तद्वृत्तित्वन्द्वित्वपाप्तेरिति उद्देश्यतावच्छेदकव्याप्यपर्याप्तेसंसर्गत्वेनाकाशावित्यत्र द्वित्वान्वयबोधाऽभाव इत्याहुः । जलपृथिव्योः स्नेहगन्धाविति ।। जलपृथिव्योः स्नेहगन्धावित्यादिवास्ये जले स्नेहः पृथिव्यां गन्ध इस्याकारक.