________________
१५
व्युत्पत्तिवादः। तथा च पर्याप्तरविलक्षणत्वे आकाशो न द्वे इत्यादिप्रतीतेरप्यप्रमास्वापत्तिरिति, तन्न ? आकाशं न द्वित्ववदिति प्रतीतो द्वित्वसम मायावच्छिन्नभेद एव विषयः मतुपा सम्बन्ध्युल्लेखात् , न तु द्वित्वाद्यवच्छिन्नभेदः । एवं चाकाश. स्वाद्यवच्छेदेन द्वित्वाधवच्छिन्नभेद एव स्त्रीकर्तव्यः । न तु तत्सम्बन्धावच्छिन्नभेद इत्याकाशं न । इति प्रतोतेरप्रमावस्याकाशं न द्वित्ववदिति प्रतोतेर्वा प्रमात्वस्य न प्रसङ्ग इति ।
अथोद्देश्यतावच्छेदकव्याप्यपर्याप्तद्वित्वसम्बन्धत्वे धवखदिरौच्छिनत्तीत्यादौ उद्देश्यतावच्छेदकोभूतधवत्वखदिरत्वव्याप्यं द्वित्वादिद्वयमेव प्रत्येत. व्यं न तु धवखदिरादिपर्याप्तद्वित्वादिकं, तथा चैकैक्रधवस्खदिरादितात्पर्येण तथा प्रयोगानुपपत्तिरिति द्विस्वान्वयितावच्छेदकमपेक्षाबुद्धिविशेषविषयत्वादिरूपमुभयादिनिष्ठं साहित्यं द्वन्द्वसमासार्थो वाच्यः । तथा च मोमांसकमत. प्रवेश इति चेन्न ? यत्र एकधर्मस्य द्वित्वायुद्देश्यतावच्छेदकता तत्रैवोद्देश्यतावच्छेदकव्याप्तिविशिष्टपर्याप्तः संसर्गतानियमः । यत्र धर्मद्वयादेस्तथात्वं तत्र केवला पर्याप्तिः समवाय एष वा संसर्ग इत्युपगमाद् , विनैव साहित्यस्यान्वयितावच्छेदकताम् एकैकतात्पर्येण धवखदिरावित्यादिप्रयोगोपपत्तेः ।
नचैवमेकैकधवखदिरादितात्पर्येण धवौ खदिरावित्यादिप्रयोगापत्तिः । ताशवाक्यद्वयविषयकसमूहालम्बनजन्यसमूहालम्बनशाब्दयोधस्य नाना. धर्मावच्छिन्नोद्देश्यताकतया शुद्धपर्याप्तरपि संसगतयाऽवगाहन. सम्भवादिति वाच्यम् ? यत्र नानाधर्मावच्छिन्नविशेष्यतानिरूपिता एकद्वित्वादिप्रकारता तत्रैव शुद्धायाः पर्याप्तेः समवायस्य वा संसर्गतया भानाद् , घबौ खदिरावित्यादिनानावाक्यजन्यसमूहालम्बनशाब्दबोधे विशेष्यताभेदेन प्रकारताभेदेन वोदेश्यतावच्छेदकधवत्वादिव्याप्ति.
लान्वयितया तदभावस्याऽप्रसिद्धत्वेन तादृशसम्बन्धस्याऽप्रसिद्धत्वाद् इति वाच्यम् ? स्वविशिष्टोद्देश्यतानिरूपितत्त्वसम्बन्धेन वैशिष्टयम् , उद्देश्यतायामुद्देश्यतावैशिष्टयञ्च स्वनिरूपितविधेयताश्रयव्यापकतावच्छेदकतानिरूपितत्वसम्बन्धेन । व्यापकतावच्छेदकतायां स्वाश्रयवत्तासम्बन्धेन । तथाच प्रमेयत्वनिष्ठावच्छेदकतायां स्वाश्रयप्रमेयवत्तासम्बन्धेन द्वित्वव्यापकत्वस्य विद्यमानत्वेन नाऽप्रसिद्धतेति वर्णनात् । अत्रास्मद्गुरवः ___ यत्रोद्देश्यतावच्छेदकतापर्याप्तिवृत्तित्वमुद्देश्यतावच्छेदकव्याप्यपथ्याप्तेस्तत्रैव संसर्ग. ता। यत्र न पर्याप्तेद्देश्यतावच्छेदकाधिकरणत्वन्तत्र केवलपर्याप्तेरेव संसर्गता।
वृत्तित्वञ्च स्वनिरूपकोद्देश्यतावच्छेदकताश्रयवदन्यवृत्तित्वसम्बन्धेन । धवखदिरा