________________
शास्त्रार्थकलोपस्कृतः वस्तुतस्तु घटत्वादेः प्रत्येक द्वित्वपर्याप्त्यनवच्छेदकत्वेऽपि द्वित्वपर्याप्ति. त्वावच्छिन्नानतिप्रसक्ततया सदच्छिन्नावच्छेदकत्वमव्याहतमेव ।
अथ पर्याप्तथाख्यविलक्षणसम्बन्ध एवाप्रामाणिकः तत्कथं तत्सम्बन्धता ? आकाशो न द्वाविति प्रतीतिस्तु समवायसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताकद्वित्वावच्छिन्नभेदविषयिकैवास्ताम् । आकाशादौ द्वित्वसमवायसस्वेपि द्वित्वादेरेवोमयादिवृत्तिधर्ममात्रावच्छिन्नत्वोपगमात्तदनवच्छेदकाकाशत्वाद्यवच्छेदेन समवायसम्बन्धेन तद्वतो भेदस्य वृत्तौ बाधकामावा. दिति चेन्न ? आकाशावित्यादिवाक्यजन्यशाब्दबोधस्याप्रमात्वानुपपत्त्यैव तादृशसम्बन्धसिद्घः । तादृशबुद्धेः समवायविषयकत्वे प्रमात्वनिराकरणस्य कर्तुमशक्यत्वात् । उद्दश्यतावच्छेदकव्याप्तिविशिष्टसमवायस्य संसर्गतोपगमे घटावित्यादिवाक्यम्याप्यप्रमाणतापतिः । समवायस्यैक्येन घटादिनिष्ठस्य द्वित्वादिसमवायस्य पटादावपि सत्त्वेन घटत्वाद्यव्याप्यत्वात् । नचोद श्यतावच्छेदकव्याप्यद्वित्वादिसमवायत्वेनैव सम्बन्धतास्तु, द्वित्वादिसमवायस्य घटत्वाद्यव्याप्यत्वेपि द्वित्वादेस्तदुव्याप्यतया न घटावित्यादेरप्र. माणतेति वाच्यम् ? एवं सति तथाविधद्वित्वादेरेव लाघवेन द्वित्वादिसम्बन्धतौचित्यात् । अथास्त्वेवमेव तावतापि पर्याप्तिसम्बन्धस्य विलयादिति चेन्न ? द्वित्वादिस्वरूपस्यैव द्वित्वादिपर्याप्तितयाभिमसिद्धेः । उक्त च दोधितिकृता “पर्याप्तिश्चायमेको घट इमौ द्वावित्यादिप्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेष" इति । समवायस्य नानात्वमते च द्वित्वादिसमवाय एव तत्पर्याप्तिनं तु स्वरूपमतिरिक्तपदार्थो वेत्यन्यदेतत् । यत्त “आकाशं न द्वे” इत्यादिप्रतोतिवदाकाशं न द्वित्ववदिति प्रतीतेः प्रमात्वस्य वारणाय समवायेन द्वित्वादिमद आकाशत्वावच्छेदेन न स्वीक
तव्यः ।
एवञ्च कालत्वाकाशत्वोभयधर्मावच्छिन्नोद्देश्यतानिरूपितावच्छेदकताश्रयसामान्याऽभाववद्दिनिरूपितवृत्तित्वस्य त्रित्वे सत्त्वेन त्रित्वनिष्ठविधेयतायां तवृत्तित्वसस्वान्निरुक्तसम्बन्धाऽभावात्केवलायाः पर्याप्तेस्समवायस्य च संसर्गत्वाऽभावात् ।
नचोद्देश्यभेदेनोद्देश्यताया भिन्नत्वमिति पक्षे धवखदिरादौ दोषाः पूर्वोक्तयुक्तरिति वाच्यम् ? स्वनिरूपितविधेयतानिरूपितोद्देश्यतावच्छेदकताश्रयसामान्याऽभाववठ्ठत्तिनिष्ठत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन वैशिध्यम् । द्वित्वनिष्ठविधेयतानिरूपितत्वेन धवत्वावच्छिन्नखदिरत्वावच्छिन्नोद्देश्यत्वयोरनुगमे क्षतिविरहात् ।
नच प्रमेयाकाशावित्यत्र केवलप्रमेयावित्यत्र च दोष उद्देश्यतावच्छेदकस्य केव