________________
१८६
व्युत्पत्तिवादः। द्वौ" इत्यादौ केवलपर्याप्तिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताकभेदो नत्रा बोधयितुं न शक्यते, आकाशेऽप्युक्तयुक्त्या द्वित्वपर्याप्तः सत्त्वेन तत्र तेन सम्बन्धेन तद्वद्भेदस्य वक्तमशक्यत्वात् । आकाशत्वव्याप्यपर्याप्तिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताद्वित्वादिमभेदश्चाप्रसिद्ध एवेति चेन्न? द्वित्वादिपर्याप्तरुभशादिवृत्तिधर्मेणैवावच्छेदात् तदनवच्छेदकैकमात्रवृत्तिधर्मावच्छेदेन तद्वद्भेदस्य तेन सम्बन्धेन द्वित्वादिमभेदस्य च तद्वति वृत्तौ बाधकाभावात् । न चैवं घटपटौ न द्वाविति प्रयोग आपघेत ? घटपटयोरपि प्रत्येकं द्वित्वावच्छिन्नभेदस्य बाधेन तादृशप्रयोगाभावोपपत्तेः। नव्या व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदश्च उद्दे. श्यतावच्छेदकावच्छेदेनैव बोधयत इति व्युत्पत्तेत्विसामानाधिकरण्येन तदबाधस्याकिंचित्करत्वात् । न च घटत्वादेरतिप्रसक्ततया द्वित्वादिपयोप्तेरनवच्छेदकत्वात्तदवच्छेदेन द्वित्ववभेदस्य भवतामप्यनुमतत्वात् प्रकृत्यर्थगतैकत्वाविवक्षायां घटो न द्वावित्यादिप्रयोगापत्तिरिति वाच्यम? तादृशप्रयोगाभावे घटस्वादेर्दित्वपर्याप्तरिव द्विस्वादिमभेदस्याप्यनुयोगितावच्छेदकताया अप्रामाणिकत्वात्, प्रतियोगितावच्छेदकानव. च्छेदकताया भेदावच्छेदकतानियतत्वासिद्धेः। अस्तु वातिप्रसक्तोऽपि घटत्वादित्विपर्याप्तरवग्छेदकः घटावियादिप्रतीतिबलात् । यत्र नानाधर्मावच्छिन्नविशेष्यतेति ।
ननु धवखदिरावित्यत्र धवत्वावच्छन्ना विशेष्यता एका खदिरत्वावच्छिन्ना विशेव्यता अपरा इति कुत्रापि विशेष्यतायान्नानाधर्मावच्छिन्नत्वन्नास्तीति चेन्न १ धर्माशे नानात्वेनान्यधर्मविशिष्टा यत्रैकत्वद्वित्वादिप्रकारतेति तदर्थः । प्रकारतायां धर्मवैशि. ष्ट्यञ्च स्वावच्छिन्नविशेष्यतानि पितत्वस्वभिन्नधर्मावच्छिन्नविशेष्यतानिरूपितत्वोभयसम्बन्धेन । स्वशब्देनात्र धर्मो ग्राह्यः। विशेष्यतायां नानात्वतात्पर्यविशेष्यतावि. शिष्टा यत्रैकत्वद्वित्वप्रकारतेति तदर्थः । वैशिष्ट्यञ्च स्वनिरूपितत्वस्वभिन्न किञ्चिद्धर्मावच्छिन्नविशेष्यतानिरूपितत्वोभयसम्बन्धेन । स्वं विशेष्यता। धवखदिरावित्यत्र एकस्या एव द्वित्वप्रकारताया धर्मद्वयावच्छिन्नविशेष्यतानिरूपितत्वेन क्षतिविरहात् । यत्रैकधम्य द्विवाहाददेश्यतावच्छेदकता तत्रैवेति ।
ननु स्वत्वोद्रेककालाकाशगतत्रित्वादितात्पर्यण कालाकाशा इत्येवं विधप्रयोगस्य प्रामाण्यापत्तिस्त्रित्वसमवायस्य कालाकाशादौ विद्यमानत्वात्तत्र धर्मद्वयस्य त्रित्वो. द्देश्यतावच्छेदकत्वाद् इति चेन्न १ यत्र नानाधर्मावच्छिन्नोद्देश्यताविशिष्टव्यासज्यत्तिनिष्ठेकविधेयता भवति तत्रैव केवलपर्याप्तेस्समवायस्य वा संसर्गतेति व्याख्यानात् । .. वैशिष्ट्यञ्च स्वनिरूपितावच्छेदकत्वावच्छिन्नाऽभाववद्वृत्तिनिष्ठत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्वसम्बन्धेन । अत्र स्वपदेनोद्देश्यता ।