________________
शास्त्रार्थकलोपस्कृतः। म्भवात् । स्वव्यापकीभूतोद्देश्यतावच्छेदकवत्वरूपपरंपराया एवं प्रकृ. त्यर्थे द्वित्वादेः सम्बन्धतास्वीकारे च व्यापकतारूपसम्बन्धतावच्छेदकाशे भ्रमत्वस्यावश्यकतया उद्देश्यतावच्छेदकव्याप्यत्वविशिष्ट पर्याप्तः सम्बन्धतोपेक्षाया निर्बीजत्वात् । __ अथात्र व्याप्तिापकसामानाधिकरण्यरूपैव वाच्या, न तु तद्वद. न्यावृत्तित्वरूपा, केवलान्वयिधर्मस्य . प्रकृत्यर्थतावच्छेदकता यत्र तत्राप्रसिद्धेः। एवं चोद्देश्यतावच्छेदकव्याप्तिविशिष्टपर्याप्त्यपेक्षया लधोः स्वव्यापकताहशधर्मवरवस्यैव सम्बन्धत्वमुचितमिति चेत्तहि आकाशो न द्वावित्यादिवाक्यजन्यशाब्दबोधदशायामपि आकाशाविल्यादिवाक्याद् द्वित्वबोधापत्तिः। तथा हि आकाशो न द्वाविस्यावितो द्वित्वावच्छिन्नभेदः प्रतीयते । स च न स्वव्यापकाकाशत्ववस्वादिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताकः । तादृशसम्बन्धेन द्वित्ववतोऽप्रसिद्धः अपि तु पर्याप्तिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताक एव। तत्काले च पर्याप्तिसम्बन्धेन द्वित्वविशिष्टबुद्धिरेव प्रतिबध्यते नतूक्तपरंपरासम्बन्धेन तविशिष्टबुद्धिरपोति । अथ "आकाशो न विशेषणताविशिष्टविशेष्यताकज्ञानत्वरूपस्य भ्रमत्वस्योपपादितत्वादित्यर्थः। वैशिष्ट्य - ञ्चोक्तमेव । किञ्च तदभाववनिष्ठविषयतानिरूपिततनिष्ठविशेष्यताकत्वस्यैव भ्रमत्वेन संसर्गाशे संसर्गघटकांशे वा तादृशस्यैव सत्वेनाक्षतेः। __नच संयोगेन पर्वतो वहिमानित्यत्रापि भ्रमत्वापत्तिस्समवायसम्बन्धेन वह्नयमाववत्त्वस्य पर्वते विद्यमानत्वाद् इति वाच्यम् ? विशेषणताविशिष्ट विषयताकस्य विवक्षितत्वात् । विशेषणतावैशिष्ट्य स्वनिरूपितत्वस्वविशिष्टप्रतियोगिताकाभाववमिष्ठत्वमित्युभयसम्बन्धेन । प्रतियोगितायां विशेषणतावैशिष्टयश्च स्वानवच्छेदकसम्बन्धावच्छिन्नत्वस्वानवच्छेदकानवच्छिन्नत्वोमयसम्बन्धेन । स्वं विशेष्यता।
किश्च स्वावच्छिन्नत्वस्वावच्छेदकसम्बन्धावच्छिन्नत्वैतदुभयसम्बन्धेन। स्वं विशेषणता ।
नचैवमपि कालिकसम्बन्धेन संयोगसम्बन्धावन्छिन्नप्रतियोगिताकवह्नयभावस्य पर्वते सत्त्वात्संयोगेन वह्निमान् पर्वत इतिज्ञानस्य भ्रमत्वन्दुरिमेवेति वाच्यम् ? द्वितीयसम्बन्धघटकाऽभाववन्निष्ठत्वेन । स्वाऽभाववत्ता च स्वनिरूपितप्रतियोगिताविशिष्टप्रकारतानिरूपितद्वित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकस्वनिष्ठप्रकारतावच्छेदकसम्बन्धेन विवक्षिता। तथाविधस्वरूपसम्बन्धेन वलयभाववत्त्वस्य पर्वते विरहान्नापत्तिः।
प्रकारतायाम्प्रतियोगितावैशिष्टयञ्च स्वसामानाधिकरण्यस्वानवच्छेदकाऽनवच्छि. न्नत्वस्वानवच्छेदकसम्बन्धावच्छिन्नत्वैतस्त्रितयसम्बन्धेन । स्वमत्र प्रतियोगिता।
अत्र