________________
व्युत्पत्तिवादः सम्बन्धतावच्छेदांशे प्रकारतायां भ्रमस्य सर्वानुभवसिद्धत्वेपि व्याप्यत्वांशे भ्रमत्वस्यान्यत्रोपपादितत्वात् । न च प्रकृत्यर्थतावच्छेदक एव व्यापकतासम्बन्धेन द्वित्वान्वयधोः किं नोपेयते इति वाच्यम् ? घटावि. त्यादौ घटस्वादीनां स्वरूपत एवोपस्थिततया तत्रोक्तान्वयबोधस्यास
मन्मते इति-संख्यायाः प्रकृत्यर्थत्वमत इत्यर्थः । अत्र कल्पे प्रतिबन्धकताद्वयम् । यथा १ एकत्वादिप्रकारतानिरूपितघटादिविशेष्यकोपस्थितिविशिष्टयोग्यताज्ञानम्प्रतिबन्धकम् । २ घटादिविशेष्यतानिरूपितैकत्वादिप्रकारताकोपस्थितिविशिष्टयोग्यताज्ञानम्प्रतिबन्धकम् । ३ योग्यताज्ञानविशिष्टैकत्वादिप्रकारतानिरूपितघटादिविशेष्यकोपस्थितिः प्रतिबन्धिका । ४ योग्यताज्ञानविशिष्टघटादिविशेष्यतानिरूपितैकत्वादिप्रकारताकोपस्थितिः प्रतिबन्धिका । तथाच प्रतिबध्यप्रतिबन्धकभावे लाघवेन संख्या प्रकृत्यर्थ एवेति सिद्धम् ।
अत्र केचिद्विलक्षणाः घूर्वोक्तरीत्या घटपटमठजलकुम्भादिप्रकृतयोऽनन्ताः । स्वादिविभक्तयश्चैकविंशतिसंख्याकाः । एवञ्चैकविंशतिस्वादिविभक्तिष्वेकत्वसंख्याशक्तिकल्पने लाघवम् । घटा. दिप्रकृतीनामनन्ताऽनन्तत्वेनानन्तशक्तिकल्पनायां महागौरवम् । एवन्धातुस्थलेऽपि धातूनामनन्तत्वेन तत्रैकत्वादिसंख्याशक्तिकल्पनापेक्षयाऽल्पसंख्याकतिबादावेकत्वादि. संख्याशक्तिकल्पने लाघवम् । किञ्च शक्ति वादे लाघवगौरवविवेके चिकीर्षिते शक्यतावच्छेदकं किं १ शक्ततावच्छेदकञ्च किमिति १ तयोः कुत्र लाघवं कुत्र गौरवम् इत्येव व्यवहारस्समीचीनः । घटपदाटो बोद्धव्य इतिशक्तिज्ञानानन्तर पदार्थबुद्धौ जाताया. म्पश्चात्प्रतिवन्धकभावादिविचारकाले गौरवसत्त्वे भासमानेऽपि फलमुखगौरवन्न दोषावइमिति न्यायेन निरर्थकमेव गौरवम् । . किञ्च घटः घटौ घरा इत्यादिष्वेकवदित्वबहुत्वविवक्षयैव स्वाद्युत्पत्तौ "द्वथेकयोविचनैकवचने' 'बहुषु बहुवचनमि' तिसूत्रयो 'स्स्वौजसमौडि' तिसूत्रेण सहैकवाक्यतया कर्मत्वे द्वितीया कर्तृत्वे प्रथमेति प्रकारेण शक्तौ परिच्छिन्नायाम्पश्चात् प्रतिबध्यप्रतिब. बन्धकगौरवाणामकिञ्चित्करत्वात् । अतएव युक्तिवलेन शम्दस्यानित्यत्वे सिद्ध पश्चाजायमाना तद्ध्वंसप्रागभावादिकल्पनाऽकिञ्चित्करी। तथाच एकत्वादिसंख्या स्वादिविभक्तरेवार्थ इत्युक्त वन्तः। अनयैव रीत्या नम्धात्वर्थो नतिः प्रकर्षरूपोऽर्थः प्राद्यर्थः इत्येव सिद्धान्तः । आकाशपदस्य लक्षणयाऽर्थान्तरवोधकत्वे द्विवचनाद्यन्तबोधस्येष्टत्वापत्तेराह-एकव्यक्तिबोधनपरादिति । वैज्ञानिकांमति-ज्ञाने भासमानमित्यर्थः । उद्दश्यतावच्छेदकव्याप्यत्वनिष्ठावच्छेदकतानिरूपिता पर्याप्तिनिष्ठसंसर्गतेति फलितार्थः।
विशिष्टसंसर्गाऽसिद्धावपीति-आकाशत्वव्याप्यत्वविशिष्टपर्याप्तेरप्रसिद्धावपीति भावः। __ उपपादितत्वादिति-संसर्गाशे प्रकारविशेष्यभावभानन्न भवति यद्यपि तथापि