________________
शास्त्रार्थकलोपस्कृतः
१०३ भवन्मते योग्यताज्ञानघटोपस्थित्येकत्वोपस्थितीनां तिमृणां विशेष्यविशेषणभावे विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकमावषटकं, मन्मते तत्र योग्यताज्ञाने विशिष्टविषयकोपस्थितेः प्रत्येकं दर्शितोभयरूपेण वशिष्टय निवेश्य तदुभयं प्रत्येक ताशरूपद्वयावच्छिन्नायामुपस्थितौ योग्यताज्ञानस्य वैशिष्टय निवेश्य च द्वयमिति तचतुष्टयमात्रमितिरोत्या. स्माकमल्पतरतत्कल्पने महालाघवम् । ___ताशरीत्यैव च प्रणमतीत्यादौ प्रकर्षविशिष्टनतिर्कीतूनामेवार्थः प्रादयो द्योतका एच न तु प्रकर्षादिवाचका इति सर्वानुमतः पन्थाः परिष्कत शक्यते । अन्यथानन्तधातुजन्यप्रकर्षादिविशिष्टतत्तत्स्वार्थोपस्थितीनां शाब्दाधोनजनकतामपेक्ष्य कतिपयोपसर्गाधीनप्रकर्षाद्युपस्थितीन तज्जनकताकल्पने लाघवात् । स्वादोनामिव प्रादीनामपि वाचकता निराबाधा सिद्ध्येतेति संख्यायाश्च प्रकृत्यर्थे पर्याप्तिसम्बन्धेनैव विशेषणत्वं न तु समवायादिना । तथा सति एकव्यक्तिबोधनपरादाकाशशब्दादपि द्विव. चनबहुवचनाद्यापत्तेः । तत्तदर्थयोत्विबहुत्वयोः समवायादिना आकाशाद्यन्वययोग्यत्वात् ।
न च पर्याप्तः संसर्गत्वेऽपि तद्दोषतादवस्थ्यम् । घटाकाशादौ हित्वादेः पर्याप्तिसत्त्वे प्रत्येकमाकाशादौ तत्पर्याप्ति स्तोति बक्तुमशक्यत्वात् प्रत्येकस्योभयानतिरिक्तत्वादिति वाच्यम् ? उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेरेव संसर्गतोपगमात् । आकाशत्वादिव्याप्यताया द्वित्वादिपर्याप्तावसत्त्वेनातिप्रसङ्गविरहात् । वैशिष्टयं च वैज्ञानिकं न तु वास्तवम् ।
तेन यत्र योग्यताभ्रमजन्यः अत्राकाशावित्यादिवाक्यजन्यद्वित्वादि. प्रकारकाकाशबोधस्तत्र विशिष्टसंसर्गाप्रसिद्धावपि न क्षतिः । द्विस्वादिपर्याप्तावन्यत्र प्रसिद्धस्याकाशत्वादिव्याप्यत्वस्य भ्रान्तेस्तत्रोपगमात् । विशेषणभावे विनिगमनावैकल्येन षट् प्रतिवध्यप्रतिबन्धकमावा भवन्ति । १ योग्यता. ज्ञानविशिष्टा या घटोपस्थितिस्ताहशघटोपस्थितिविशिष्टेकत्वोपस्थितेः प्रतिबन्धकत्वम् । २ योग्यताज्ञानविशिष्टा या एकत्वोपस्थितिस्ताहशैकत्वोपस्थितिविशिष्टघटोपस्थितेः प्रतिबन्धकत्वम् । ३ घटोपस्थितिविशिष्टं यद् योग्यताशानन्तादृशयोग्यताशानविशिष्टैकत्वोपस्थितेः प्रतिबन्धकत्वम् । ४ घटोपस्थितिविशिष्टा या एकत्वोपस्थितिस्ताहशैकत्वोपस्थितिविशिष्टयोग्यताज्ञानस्य प्रतिबन्धकत्वम् । ५ एकत्वोपस्थि. तिविशिष्टा या घटोपस्थितिस्तादृशघटोपस्थितिविशिष्टयोग्यताज्ञानस्य प्रतिबन्धकत्वम् । ६ एकरवोपस्थितिविशिष्टं यद् योग्यताशानन्ताशयोग्यताज्ञानविशिष्टघटोपः स्थितेश्च प्रतिबन्धकत्वम्। .