________________
१८२
व्युत्पत्तिवादः तज्जन्यविशिष्टविषयकोपस्थित्या विशिष्टविषयकशाब्दधोजननात्तथाविधोपस्थितिहेतुतायाः सर्वानुमतत्वात् । पदान्सरासमभिव्याहताद्धट इत्यादिपदा. देकत्वादिविशिष्टघटादिशाब्दबोधस्त्वलीक एव । तद्विषयकस्मरणस्य तत्रो. पगमात् ।
तथा चोक्त सर्वे हि वाक्यं क्रियाय परिसमाप्यते इत्यपि निरस्तम । याशपदानां लक्षणया एकत्वादिविशिष्टस्वार्थबोधहेतुत्वं नोभयवादिसिद्धं तादृशानन्तपदजन्यविशिष्टोपस्थितीनां शाब्दधीहेतुताकल्पनमपेक्ष्य विभक्तिजन्यसंख्योपस्थितीनामल्पानां तत्कल्पने लाघवात् । इदं पुनरिहावधेयम । विभक्तेः संख्याबोधकत्वे समानविषयकानुमित्यादिकं प्रति शाब्दसामग्रीप्रतिबन्धकतायां या प्रातिपदिकजन्या घटाद्यपस्थितिर्या च विभक्ति जन्या संख्योपस्थितिः प्रवेश्या तयोश्च मिथो विशेष्यविशेषणभावे विनिगमनावि. रहात्प्रतिबन्धकताबाहुल्यम् ।
प्रकृतेर्विशिष्टलाक्षणिकत्वे तु तदुभयस्थलीयविशिष्टविषयकोपस्थितिरेकैव सामग्रथामन्तभवति इति लाघवम् । न च विशिष्टविषयकोपस्थितेपि एकत्वादिप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिविशेष्यतानिरूपितैकत्वादिविषयताशालित्वेन वा प्रवेश इति विनिगमनाविरहात्साम्यमिति वाच्यम् ? स्वादिविभक्तीनामेव संख्यायां शक्तिरित्याकूतम् । . विभक्तस्संख्याबोधकत्वमते गौरवम्प्रकाशयति इदम्पुनरिहेनि । विभिन्न विषयकप्रत्यक्षस्वावच्छिन्नम्प्रति शाब्दसामग्रथाः प्रतिबन्धकत्वं समानविषयकानुमितित्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वम् इति नियमद्वयम् । एवञ्च घटादिपदनिष्ठस्वादिपदनिष्ठोपस्थितेश्च प्रतिबन्धकत्वमापद्यत । किञ्च तयोरुपस्थित्योः परस्परं वि... शेष्यविशेषणभावे विनिगमनावैकल्येन घटपदजन्यघटोपस्थितिविशिष्टविभक्तिजन्यसं.
ख्योपस्थितेः प्रतिबन्धकत्वम् । एवं विभक्तिजन्यसंख्योपस्थितिविशिष्टघटपदजन्यघटोपस्थितेरपि प्रतिबन्धकत्वमेवं सर्वत्र बहुविधोपस्थितिप्रतिबन्धकत्वकल्पने गौरवम् । प्रकृ तेरेव संख्याविशिष्टप्रकृत्यर्थघटादौ लक्षणाग्रहणे तु संख्या विशिष्टप्रकृत्यर्थविषयकोपस्थितिरेकैवास्तीति समानविषयकानुमितीतिनियमानुसारेण एकस्या एव प्रतिबन्धकत्वकल्पनाल्लाधवमिति तात्पर्येणाह प्रकृतेरिति ।
नच संख्याविशिष्टघटविषयकोपस्थितिस्वीकारेऽपि विनिगमनाविरहेण संख्याप्रकार. कघटविशेष्यकत्वेन घटादिविशेष्यकसंख्याप्रकारकत्वेन द्वैविध्यात् साम्यमित्याह नचेति । ___ भवन्मते संख्याया विभक्त्यर्थत्वमते शाब्दबोधसामग्रयां योग्यताज्ञानस्य घटपदजन्यघटोपस्थितेर्विभक्तिजन्यैकत्वादिसंख्योपस्थितेश्च प्रवेश इति त्रयाणां विशेष्य