________________
शास्त्राथकलोपस्कृतः
१८१ चिता शक्यलक्ष्ययोः परस्परमन्वयोपगमे क्षतिविरहात्। प्रथमाविभक्तः कुत्रापि शक्तेरक्लूप्ततया तस्याः शक्यसम्बन्धरूपा लक्षणा न सम्भवति । द्वितीयादेः कर्मत्वादौ शक्तत्वेऽपि तादृशविभक्तेस्तत्समभिव्याहृतप्रकृतेर्वा संख्यायां लक्षणा इत्यत्र विनिगमकं दुर्लभम् ।।
न चैकत्वाद्यन्वयबोधे घटपदादिज्ञानजन्योपस्थितित्वेनानन्तहेतुताकल्पनमपेक्ष्य स्वादिपदज्ञानजन्यतदुपस्थितित्वेन कतिपयहेतुताकल्पनायां लाघवात्कतिपयशक्तिकल्पने गौरवमकिंचित्करम् ।
सामान्यतः पदवृत्तिज्ञानजन्यतदुपस्थितित्वेनैफकारणताकल्पनन्तु न सम्यक् निर्विभक्तिककुम्भपदादितः संख्योपस्थितौ तदगृहीतवृत्तिकघटादिपदे तत्तद्विभक्त यन्तत्वज्ञानवतः पुंसो घटादौ संख्यान्वयबोधप्रसङ्गात् । घटप. टादिज्ञानजन्यैकत्वाधुपस्थितित्वेनैकत्वादिविषयकशाब्दबोधहेतुतां कल्पयित्वा विभक्तिघटादिपदानुपूर्वीज्ञानताहशोपस्थित्योः परस्परसहकारेण फलजनकताया अवश्याभ्युपेयत्वादिति वाच्यम् ? घटादिपदस्यैकत्वादी लक्षणाप्रहसत्त्वे घटः प्रमेय इत्यादिवाक्यादेकत्वं प्रमेयमित्याद्यन्वयबोधस्य सर्वसंमततया तदनुरोधेनैकत्वादिविषयकशाब्दबोधे घटादिपदजन्यैकत्वाद्युपस्थितित्वेन हेतुताया: सर्वसंमतत्वात्। मैवम् , यादृशपदानां लक्षणया एकस्वा. दिशाब्दधोजनकत्वं नोभयवादिसिद्धं तादृशानन्तपदनानजन्यैकत्वाद्युपस्थितोनां तच्छाब्दहेतुत्वकल्पनं प्रकृतेः संख्यावाचकतावादिनामधिकमिति तत्कल्पनापेक्षया चाल्पतरस्वादिपदजन्यैकत्वाद्युपस्थितितुताकल्पन एव लाय. . वम् । एतेन संख्याविशेषावच्छिन्नघटादिलक्षणया प्रकृतेरर्थः न तु संख्याविभक्तयर्थः शाब्दबोधे विभक्तिजन्यसंख्योपस्थितिहेतुताकल्पनाधिक्येन गौरवात् । घटादिपदस्यैकत्वादिविशिष्टघटादौ लक्षणाग्रहदशायां सर्वमत एव ङ्गीकारभङ्ग इत्यभिप्रायात् । अक्लूप्ततयेत--विशेषणविभक्ते ऽभेदोऽर्थ इति मते चैतत् । स्वर्थोऽभेद इति प्रकारतावादे तु लक्षणा सम्भवत्येवेति ।
कतिपयशक्तिकल्पन इति-प्रथमाविभक्तीनामेकत्वादिषु शक्तिकल्पन इति । गांग्त्रमकिश्चित्करमिति-~-एकस्वद्वित्वबहुत्वेषु प्रथमाशक्तिकल्पनापेक्षयाऽनन्तघटपदनिष्ठशक्ति ज्ञानतत्तदुपस्थितित्वेन कारणतायां गौरवमिति तत्त्वम् । तत्तदुपस्थिनित्वेनेति-एकत्वाद्युपस्थितित्वेनेत्यर्थः । तदगृहातवृत्तिकेति–तत्पदेनैकत्वादिः। प्रकृतेस्संख्यावाचकत्वन्निराकरोति मैवमित्यादिना। येषां पदानां लक्षणयैकत्वादिसंख्याविषयकशाब्दबोधजनकत्वं वादिद्वयसम्मतन्तत्र गौरवाऽभावेऽपि येषां लक्षणयैकत्वादिशाब्दबोधजनकत्वन्नोभयवादिसिद्धमस्ति तेषामनन्तत्वेन तज्जन्योपस्थितीनामप्यनन्तत्वेनानन्तकारणताकल्पनं संख्यायाः प्रकृत्यर्थत्वे स्यात्तदपेक्षया लाघवानुरोधेन