________________
१५०
अथ स्वादीनां
व्युत्पत्तिवादः
संख्यावाचकत्वकल्पनापेक्षया प्रकृतेस्तत्र लक्षणैवो
ars किश्चित्
यदि तात्पर्यज्ञानस्य तत्तच्छाब्दबुद्धौ कारणत्वन्तदा मूर्खणार्थानभिज्ञेन शुकेन दक्षिणा मैनाख्यपक्षिणा साधारणबालकेन चित्तविभ्रान्तपुरुषेण वा प्रयुक्तम्पदन्न शाब्दबोधञ्जनयेत् तात्पर्यज्ञानाऽभावात् ।
ननु शिक्षकतात्पर्यज्ञानाच्छाब्द इति चेन्न १ प्रत्युच्चारणं वाक्यम्भिद्यते नवेति शास्त्रार्थे भिद्यत इति पक्षस्यैव सिद्धान्तितत्वात् ।
नच भेदेऽप्यानुपूर्वीभेदाऽभावेन शाब्दबोधे न विवाद इति वाच्यम् ? प्रकरणप्रासार्थानवबोधे सुरभिर्मासम्मक्षयेति वाक्यभावणप्रत्यक्षानन्तरलौकिकापवादहान्यापत्तेः । तस्मात्प्रकृताऽप्रकृतप्रासार्थमात्र शाब्दबोधो नहि तत्र तात्पर्यज्ञानङ्कारणम् । यद्वाक्यार्थो येन केनाऽपि प्रमाणेन न बाघविषयाक्रान्तस्तस्यैव प्रामाण्यन्नाम्यस्येति । एवं शाब्दबोधसामग्रीप्रतिबन्धक विचारेऽपि विशिष्टं लाघवमस्माद्वाक्यान्मयाऽर्थोऽवबु~ दस्तत्र भवतान्तात्पर्यमस्ति न वेति विचारस्य सर्वथैव सम्प्रदायविगर्हितत्वादित्यलम् । आकाङ्क्षाविचारे हेतुताया निराकृतत्वादिति । एकवाक्यताविरहेऽपीति । एकवाक्यत्वा सम्भूयैकार्थप्रतीतीच्छयोच्चरितत्वम् । निरूप्यनिरूपकभावाऽपन्नतत्तत्पदार्थनिष्ठविषयताकबोधजनकत्वञ्च ।
समभिव्याहारश्च न तत्पदोत्तरतत्पदत्वं नियतपूर्वापरीभावो वा १ एकवाक्यताबिरहेऽसम्भवात् । तथाच इदम्पदमनेन पदेन सहान्वयबोधञ्जनयत्वितीच्छारूपम् एतदिच्छयोच्चरितत्वं वा । यत्पदार्थस्य यत्पदार्थेन सहान्बयत्रोघो विवक्षितस्तयोः पदयोः परस्परसमभिव्याहार आकाङ्क्षति तात्पर्यगभिताऽकाङ्क्षा तात्पर्यघटितत्वेन तात्पर्यः ज्ञानकारणतयैव निर्वाहे घट इत्यादी घटपदोत्तरसुत्वरूपसमभिव्याहाराकाङ्क्षा ज्ञान हेतुताया निराकृतत्वादिति कृष्णम्भट्टाः ।
अत्र सूक्ष्मतत्त्वज्ञाः
घटः कर्मत्वम् आनयनम् कृतिरितिवाक्याद् घटकर्मताकानयनानुकूलकृति विषयकशाब्दबोधवारणाय आनुपूर्वी विशेषरूपाया आकाङ्क्षायास्स्वीकारात् ।
किञ्च अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ न राज्ञः पुरुष इतिवाक्यम् इत्येवंविधे ज्ञाने सत्यपि योग्यताज्ञानादिकारणसामग्रीसत्त्वे राजनिरूपितस्वत्ववत्पुरुषविशेष्यकशाब्दबोधवारणाय समभिव्याहारज्ञानं शाब्दबोधे कारणम् । परन्तु नानार्थक सैन्धवादिपदघटित सैन्धमानयेत्यादौ तात्पर्यज्ञानं विना शाब्दबोधानुदयेनेव अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्राऽपि एकवाक्यत्वाऽभावेन इदं वाक्यं राजस्वत्ववत्पुरुषविषयकशाब्दबोधञ्जनयत्वित्याकारकतात्पर्यज्ञानाऽभावेन शान्दबी
घाऽभावेन च समभिव्याहारज्ञानस्य कथमपि कारणत्वन्नास्ति, तात्पर्येणैव निर्वाहात् । प्रथमाविभक्तेरिति - ननु प्रथमाविभक्तेरेव लक्षणास्त्येवश्च नैव युगपद् वृत्तिद्वयान