________________
शास्त्रार्थकलोपस्कृतः।
१७९ तात्पर्यज्ञानं तादृशान्वयधोहेतुरिति लाघवमिति चेन्न ? विभक्केः संख्यावाचकताविरहेऽपि प्रकृतिविभक्त थोरानुपूर्वीज्ञानस्य तादृशान्धयबोधहेतुतया निर्विभक्तिकादिपदज्ञानादन्वयबोधवारणायावश्यकल्पनीयतया संख्यावाचकप्रकृतेरिव तवाचकविभक्तरपि संख्यान्वयबोधकरवप्रकारकेच्छाविषयत्वरूपताशबोधपरत्वसम्भवेन विभक्तिधर्मिकतज्ज्ञानहेतुताया विनिगमनाविरहेणावश्यकत्वात । त्वविशेषसम्बन्धेन । अस्यां कल्पनायाम्महलाघवन्तथाहि, नीलो घटः कालो घटः श्या. मो घटः कृष्णो घट इतिनीलपर्यायाश्चत्वारस्यन्दाः घटः कुम्भः कलशः दोहिनी नीलो घटः नीलः कुम्भः नीलः कलशः नीला दोहिनी घटपर्यायाश्चत्वारश्शन्दाः, अत्र क्रमेण विपरीतेन विशेष्यविशेषणभावे विनिगमनाविरहेण च आकाङ्क्षाशानकार्यकारणभावविवेके क्रमेणाष्टौ कार्यकारणभावाः, विपरीतेनाष्टौ कार्यकारणभावा इति षोडश कार्यका. रणभावाः । विशेष्यविशेषणभावे विनिगमनावैकल्येन कार्यकारणभावे तु पुनरपि षोडश । आद्यन्त्यक्त्वा द्वितीयन्तृतीयं वा धृत्वेति सर्वत्र नियमेन षोडशेति । सर्वेषां कार्यकारणभावानां सङ्कलनया द्वात्रिंशत्कार्यकारणभावास्सम्पद्यन्ते । केवलानुपूर्वीशानस्यैव कारणत्वन्नतु एकपदेऽपरपदवैशिष्टयमात्रार्थकसमभिव्याहारस्य कारणत्वमिति सिद्धान्ते तु क्रमेण विपरीतेन च तद्विषयकशाब्दबोधम्प्रति अष्टौ कार्यकारणभावा इति लावप्रपञ्चः । न नीलो घटः न श्यामो घट इत्येवम्प्रतिवध्यप्रतिवन्धकभावविचारे प्रचलिते तु चतुष्पष्टिकार्यकारणभावाः । तत्तदानुपूर्वीशानविशिष्टत्वं कार्यतावच्छेदकत्वमिति पक्षे तु षोडश कार्यकारणभावा इत्यपरमनुकूलम् ।
ननु तत्तदानुपूर्वीशानविशिष्टत्वस्यैव कार्यतावच्छेदकत्वे नीलो घटं कृष्णो घटमिति प्रथमान्तद्वितीयान्तानुपूर्वीशानेऽपि नीलाऽभिन्नो घट इति अभेदान्वयो दुर्वारः। विशिष्टशानकारणतावादिनाम्मते तु नीलो घटः पीतं घटं कृष्णो घट इतिविशिष्टज्ञानकारणाऽभावान्नाऽभेदान्वयापत्तिरिति चेन्न ? यत्कार्यत्वावच्छिन्नम्प्रति यावत्कारणकार्यतावच्छेदकाक्रान्तिः तावत्कारणसत्तासमवधाने एव कार्योत्पत्तिरिति नियमानुरोधेन स्वस्वाऽव्यवहितोत्तरत्वावच्छिन्नकार्यात्वावच्छिन्नम्प्रत्येव तत्तदानुपूर्वीशानानां कारणत्वम् । तथाच मतदयेऽपि ह्येतत्समाघेस्सौष्ठवात् । अत एव शोभनस्तण्डुलम्पचति चैत्र इत्यादिवाक्ये शोभनतण्डुलयोरभेदान्वयो न भवति तत्तदानुपूर्वी ज्ञानविशिष्टत्वाऽभावात् । अत्राऽपि केचिद्वैलक्षण्यम्ब्रवन्ति
नील इत्याकारकानुपूर्वीञ्चानविशिष्टघट इत्याकारकानुपूर्वीज्ञानमेव हि कारणम् । अव्यवहितोत्तरत्वाऽव्यवहितपूर्वत्वाख्यसम्बन्धाभ्यां स्वन्तनीलपदविशिष्टस्वन्तघटपदशानं कारणम् । स्वन्तघटपदज्ञानविशिष्टस्वन्तनीलपदज्ञानं कारणम् । कल्पनेऽप्येवं लाघवमस्त्येवेति न समभिव्याहाररूपाकाङ्क्षाज्ञानस्य कारणत्वमिति ।।