Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 226
________________ रिवेति। २१८ व्युत्पत्तिवादः अथात्र प्रामादेः प्रधानकर्मत्वं नास्त्येवापि तु गौणकर्मत्वमेव । अतः एव ताशकर्मत्वमाख्यातेन नाभिधीयते "प्रधानकर्मण्याख्येये लादोनाहुर्द्विकर्मणामि" स्यनुशासनादिति । अजां ग्रामो नीयते इत्यादिको न प्रयोग इति चेतईि ? तत्र प्रामादेरिवानापि धात्वर्थतावच्छेदकतावच्छेदक. फलशालित्वेन गौणकर्मत्वापत्त्या वहिं घृतं जुहोतीति प्रयोगापत्तिर्दु: अस्मन्मते चाश्रयानवच्छिन्नसंयोगविषयताशालिधातुजन्योपस्थितिघटितसामग्रथा एव संयोगे द्वितीयार्थान्वयबोधप्रयोजकतया नैतादृशः प्रयोगापत्तिः। । यत्त अधःसंयोगावच्छिन्नस्पन्दो न पतत्यर्थः, अपि तु गुरुत्वजन्य. .तावच्छेदकजातिविशेषावच्छिन्न एव । अत एव फलावच्छिन्नव्यापाराबोधकत्वान्न सकर्मकत्वमिति । सन्न ? फस्य धात्वर्थाघटकत्वे स्पन्द एव सप्तम्यर्थान्वयस्योपगन्तव्यतया पर्णादिनिष्ठस्य भुतलावृत्तितया भूतले पततीति प्रयोगानुपपत्तेः। पर्णादिगतस्पन्दस्य परम्परया भूतळादिवृत्तित्वमिति चेतर्हि वृक्षात्पततीतिवत् वृक्षे पततीत्यपि स्यात् । अस्मन्मते चान्वत्र व्यापारे सप्तम्यर्थान्वयेऽपि अत्र व्युत्पत्तिवैचिज्यादधःसंयोगरूपधात्वर्थतावच्छेदक एव तदन्वयबोध इत्यदोषः । अन्येतु भूम्यादेः कर्मत्वविवक्षायां भूमि पततीति प्रयोग इष्ट एव । अत एव द्वितीयाश्रितेत्यादिसूत्रेण नरकं पतित इत्यादिस्थले द्वितीयासमासविधानमुपपद्यते । धात्वर्थतावच्छेदकतावच्छेदकफले द्वितोयार्थान्वय एवाश्रयानवच्छिन्नफलोपस्थितेरपेक्षा अग्नि जुहोतीतिवारणाय स्वीक्रियत इति वदन्ति ! तदपि न शोभनम् ? तथा सति भूम्यादिपदोत्तरं कदाचित्सप्तमी कदाचिद् द्वितीयेत्यत्र नियामकाभावप्रसङ्गात् । व्यापाराशे आधेयत्ववि. वक्षायां सप्तमी, फलांशे तद्विवक्षायां द्वितीयेत्यस्योक्तयुक्तथा फलांश एव सप्तम्यर्थान्वयस्यावश्यं स्वीकरणोयतया वक्तमशक्यत्वादिति । ब्राह्मणाय धनं ददातीत्यादौ स्वस्वत्वध्वंसविशिष्टपरस्वत्वानुकूला इच्छा धा. द्विकर्मणामिति-"अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः" इतिपूर्तिः। पर. म्परयेति-स्वाश्रयप्रतियोगिकसंयोगवत्त्वसम्बन्धेनेत्यभिप्रायः। अपेक्षेति-नरकपदेन दुःख विशेषभोगाधिकरणं विलक्षणं स्थानम् । एवञ्च अघोदेशसंयोगस्य पत्धात्वर्थतावच्छेदकत्वाभावेन तत्र भूमिवृत्तित्वान्वये न क्षतिरिति गूढाशयः । वक्तुमशक्यत्वादिति ! यत्तु नरकस्याधिकरणाऽनवच्छिन्नधात्वर्थतावच्छेदकफलाश्रयत्वाऽभावेन कथन्नरक

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296