Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 229
________________ शास्त्रार्थकलोपस्कृतः । मित्यादौ क्षरणजन्यविभागाश्रयत्वं गवादिनिष्ठमप्रधानकमत्वभाख्यातार्थः। अप्रधाने दुहादीनामित्यनुशासनात् । क्षीरवत्तित्वस्य धात्वर्थक्षरण एवान्वयः। आख्यातार्थक्षरण च धात्वर्थव्यापारान्वयः। तथा च विभागावच्छिन्नक्षीरनिष्ठक्षरणानुकूलव्यापारजन्यक्षरणजन्यविभागाश्रयो गौरित्याकारको बोधः । __ अथवा विभागक्षरणव्यापारेषु विशकलितेषु धातोः शक्तित्रयं, वि. शिलाभोऽन्वयबलात् । कर्माख्यातस्थले चाकालावैचित्र्येण तेषां विशे. यविशेषणभाववैपरीत्यात् । व्यापारजन्यक्षरणजन्यविभागपर्यन्तस्य धातुत एव लाभः पाश्रयत्वमेवाख्यातार्थः । एवं च क्षरणविभागयोने द्विधा भानम् । गौणकर्मासमभिव्याहृते दुह्यन्ते क्षाराणीत्यादौ आत्मनेपदेन केवलेन धातुसहितेन वा विभागावच्छिन्नक्षरणाश्रयत्वरूपप्रधानकर्मत्वस्य बोधनेऽपि एकदा उभयविधकर्मत्वबोधनस्याव्युत्पन्नतया दुहते क्षीराणि गौरित्यादयो न प्रयोगाः। पौरवं गां याचते विप्र इत्यादौ स्वोदेश्यकदानेच्छा याचत्त्यर्थः। प्रधानकर्मगवान्वितद्वित्तीयार्थः विषयत्वं धात्वर्थवावच्छेदकदानेऽन्वेति । सविषयकज्ञानादिरूपविषयोपहित इच्छाबोधकधातुस्थले इच्छावि. विषयविषयत्वमेव प्रधानकर्मत्वम् । अत एव घटो जिज्ञास्यते इत्यादौ घटादेः सन्नन्तकमता। ___ अथैवं यद्वस्तुविषयकं दानमप्रसिद्ध तद्वस्तुरूपकर्मसमभिव्याहृतधातुघटितवचसः का गतिरिति चेद् यदा गतिर्गगनं दिक्षते इत्यादिकस्य भ्रान्तपुरुषोयगगनादिप्रकारकदर्शनेच्छावोधकवाक्यस्य । गगनविषय त्यप्रकारकदर्शनेच्छाबोधस्तत्रेति चेदिहापि गोविषयिताप्रकारतानिरूपितस्वत्वेच्छानिष्ठविषयताशाली चा बोधस्तद्वाक्यस्य विशेषादर्शिविषयता च समा। विवेचनीयं चेदमग्रे। पौरवपदोत्तरद्वितीयायास्तु वत्तिरेवार्थः, तस्या दानेऽन्वयः। पौरवस्य तादृशदानाश्रयत्वमेवाप्रधानकर्मत्वम्। नचैवभिच्छाविशेषरूपदानस्याश्रयत्वं कर्तृत्वमेवेति वाच्यम् ? धातुजन्यप्रतिपत्तिविशेष्यीभूतदानाश्रयत्वस्यैव तत्कर्तृत्वरूपत्वात् । शक्तित्रयमिति द्वयर्थः पचिरिति भाष्यात्पातञ्जलात् व्यर्थी दुहादय इत्ययमेव पक्षो युक्ततर इत्यलम् । अथैवं यद्रस्तुविषयमिति ! । ननु परकीयां गां याचत इति वाक्ये परकीयगोविषयकं दानन्न प्रसिद्धम्परकीयवस्तुविषयकदानेच्छाया असम्भवात् कथम्वाक्यार्थबोध इत्याशयेन विवृणुते अथेति ।

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296