________________
शास्त्रार्थकलोपस्कृतः । मित्यादौ क्षरणजन्यविभागाश्रयत्वं गवादिनिष्ठमप्रधानकमत्वभाख्यातार्थः। अप्रधाने दुहादीनामित्यनुशासनात् । क्षीरवत्तित्वस्य धात्वर्थक्षरण एवान्वयः। आख्यातार्थक्षरण च धात्वर्थव्यापारान्वयः। तथा च विभागावच्छिन्नक्षीरनिष्ठक्षरणानुकूलव्यापारजन्यक्षरणजन्यविभागाश्रयो गौरित्याकारको बोधः । __ अथवा विभागक्षरणव्यापारेषु विशकलितेषु धातोः शक्तित्रयं, वि. शिलाभोऽन्वयबलात् । कर्माख्यातस्थले चाकालावैचित्र्येण तेषां विशे.
यविशेषणभाववैपरीत्यात् । व्यापारजन्यक्षरणजन्यविभागपर्यन्तस्य धातुत एव लाभः पाश्रयत्वमेवाख्यातार्थः । एवं च क्षरणविभागयोने द्विधा भानम् । गौणकर्मासमभिव्याहृते दुह्यन्ते क्षाराणीत्यादौ आत्मनेपदेन केवलेन धातुसहितेन वा विभागावच्छिन्नक्षरणाश्रयत्वरूपप्रधानकर्मत्वस्य बोधनेऽपि एकदा उभयविधकर्मत्वबोधनस्याव्युत्पन्नतया दुहते क्षीराणि गौरित्यादयो न प्रयोगाः।
पौरवं गां याचते विप्र इत्यादौ स्वोदेश्यकदानेच्छा याचत्त्यर्थः। प्रधानकर्मगवान्वितद्वित्तीयार्थः विषयत्वं धात्वर्थवावच्छेदकदानेऽन्वेति । सविषयकज्ञानादिरूपविषयोपहित इच्छाबोधकधातुस्थले इच्छावि. विषयविषयत्वमेव प्रधानकर्मत्वम् । अत एव घटो जिज्ञास्यते इत्यादौ घटादेः सन्नन्तकमता। ___ अथैवं यद्वस्तुविषयकं दानमप्रसिद्ध तद्वस्तुरूपकर्मसमभिव्याहृतधातुघटितवचसः का गतिरिति चेद् यदा गतिर्गगनं दिक्षते इत्यादिकस्य भ्रान्तपुरुषोयगगनादिप्रकारकदर्शनेच्छावोधकवाक्यस्य । गगनविषय
त्यप्रकारकदर्शनेच्छाबोधस्तत्रेति चेदिहापि गोविषयिताप्रकारतानिरूपितस्वत्वेच्छानिष्ठविषयताशाली चा बोधस्तद्वाक्यस्य विशेषादर्शिविषयता च समा। विवेचनीयं चेदमग्रे। पौरवपदोत्तरद्वितीयायास्तु वत्तिरेवार्थः, तस्या दानेऽन्वयः। पौरवस्य तादृशदानाश्रयत्वमेवाप्रधानकर्मत्वम्। नचैवभिच्छाविशेषरूपदानस्याश्रयत्वं कर्तृत्वमेवेति वाच्यम् ? धातुजन्यप्रतिपत्तिविशेष्यीभूतदानाश्रयत्वस्यैव तत्कर्तृत्वरूपत्वात् ।
शक्तित्रयमिति द्वयर्थः पचिरिति भाष्यात्पातञ्जलात् व्यर्थी दुहादय इत्ययमेव पक्षो युक्ततर इत्यलम् । अथैवं यद्रस्तुविषयमिति ! । ननु परकीयां गां याचत इति वाक्ये परकीयगोविषयकं दानन्न प्रसिद्धम्परकीयवस्तुविषयकदानेच्छाया असम्भवात् कथम्वाक्यार्थबोध इत्याशयेन विवृणुते अथेति ।