SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ .२२२ व्युत्पत्तिवादः अत्र च दानस्य तादृशप्रतिपत्ताविच्छारूपधात्वर्थ विशेषणत्वात् । चैत्रेण पौरवो गां याच्यते इत्यादावप्युक्तक्रमेण चैत्रवृत्तीच्छाविषयगो. कर्मकदानाश्रय इत्यन्वयबोधो बोध्यः । :यद्यपि निरुक्तयाआभिक्षौ चेति दुहियाचिरुधिच्छिभिक्षिचिमाभित्यत्रार्थपरभिक्ष्युपादानेनैव चरितार्थतया याचेरुपादानमनर्थकं तथापि याचमानः शिव सुरानित्यादौ याचतेनं निरुक्तभिक्षार्थकतेति तदुपादानम् । तत्र हि व्यापारजन्यत्वप्रकारकेच्छा धात्वर्थः। इच्छायां प्रधानकर्मकल्याणान्वितद्वितीयार्थविषयिताया अन्वयः। व्यापारे च सुरा. न्वितवत्तित्वस्य द्वितीयार्थस्यान्वया । तथा च सुरवृत्तिव्यापारजन्यत्व. प्रकारककल्याणेच्छाश्रय इत्यन्वयबोधः । गां व्रजं रुणद्वोत्यादौ देशान्तरसंचारविरोधिव्यापारो धात्वर्थः । संचारविरोधित्वं संचारानुत्पादप्रयोजकत्वम् । अनुत्पादे प्रधानकर्मगोवृत्तित्वान्वयः । देशविशेषणभेदे वजमिति द्वितीयान्तार्थत्रजप्रतियोगित्वान्वयः । रुष्यते गां व्रज इत्यादावन्वयबोधः स्वयमूहनीयः। गुरुं धर्म पृच्छतीत्यादी जिज्ञासाबोधकव्यापारो धात्वर्थः । बोधे गुरुवत्तित्वस्य जिज्ञासायां धर्मविषयकत्वस्यान्वयः। शिष्यं धर्म ते इत्यत्र ज्ञानानुकूलशब्दप्रयोगो धात्वर्थः । ज्ञाने धर्मविषयत्वस्य शिष्यवृत्तित्वस्याप्यन्वय इति, तन्न चारुतरम् ? तथा सति यत्र जिज्ञासाविषयकचैत्रज्ञानेच्च्या प्रश्नस्तादृशशब्दाच्च सामग्रीबलेन मैत्रस्यापि पृच्छकजिज्ञासाज्ञानन्तत्र मैत्रं पृच्छतीति प्रयोगस्य, एवं यत्र चैत्रज्ञानेच्छया बते दैववशाच मैत्रस्यापि ज्ञानं तत्र मैत्रं ब्रूते इति प्रयोगस्य चापः। साक्षाद्धात्वर्थविशेषणज्ञानरूपफलाश्रयतया तत्र गुर्वादोनां प्रधानकर्मतर अप्रधाने दुहादीनामित्यनुशासनविरोधेन पृच्छते गुरुधर्म "स पृष्टस्तेन करवं भो शिष्य" उच्यते धर्ममित्यादिस्थले च लकारादिना तत्क मत्वाभिधानानुपपत्तेश्च । अत्र चेति-पौरवं गां याचते विप्र इति वाक्ये, दानाश्रय इति-पौरव इति शेषः । अर्थ परेति-अत एव अहमपीदमचोधं चोद्य इति भाष्यबले नार्थनिवन्धनेयं संज्ञेति कौमुदी। याचधातोरान्तरबोधकत्वेऽपि भिश्चसमानार्थकत्वमेव युक्तम् । तथाच पृथगुपादानम्पर्यायग्रहणार्थमेवेति बोध्यम् । प्रधानकर्मतयेति । गुर्वादीनाम्प्रधानकर्मत्वन सम्भवति सविषयकधात्वर्थस्थले विषयताया एव प्रधानकर्मवात् साक्षाद्धात्वर्थतावच्छेदकदानाश्रयत्वेऽपि पौरवस्य गौणकर्मत्वोक्तिस्सुघटेति ।
SR No.008450
Book TitleVyutpattivada Shastrarthakala Tika
Original Sutra AuthorN/A
AuthorVenimadhava Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy