________________
शास्त्रार्थं कलोपस्कृतः ।
२२३
परन्तु
जिज्ञासाज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दः
पृच्छतेरर्थः ज्ञाने गुरुवृत्तित्वस्यान्वयः । शब्दे च धर्मविषयकत्वस्थान्वयः । शब्दस्य च विषयता व्यापारानुबन्धिनी, ज्ञानस्य परम्परया शब्दरूपधात्वर्थविशेपणत्वात् तदाश्रयो भूतगुरोगौंणकर्मता । धर्मस्य च धात्वर्थविषयतया प्रधानकर्मता । ब्रूयश्च ज्ञानोद्देश्यकप्र वृत्त्यधोनशब्दार्थः ज्ञाने शिष्यवृत्तित्त्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः । अजां ग्रामं नयतीत्यादौ मामं वहतीत्यादौ च उत्तर देशसंयोगावच्छिन्नक्रियानुकूलव्यापाररूपं प्रापणं धातोरर्थः । तत्र क्रियारूपे फले अजाभारादिवृत्तित्वान्वयः । ग्रामवृत्तिसंयोगजनकाजादिवृत्तिक्रियानुकूलव्यापारानुकूलकृतिमानित्यन्वयबोधः । अजा प्रामं नीयते, उद्यते भारो ग्रामं चैत्रेण इत्या-दावुत्तरसंयोगावच्छिन्न क्रिया रूपं फलं कर्माख्यातार्थस्तत्र च धात्वर्थस्य तादृशव्यापारस्य जन्यतासम्बन्धेन, सस्य चाश्रयतासम्बन्धेन अजाभारादिरूपप्रधानकर्मण्यन्वयः । ग्रामादिवृत्तित्वान्वयस्तु संयोग एव ।
भार
तथा व
एवं च चैत्रकृतिजन्यो यः संयोगावच्छिन्न क्रियानुकूलव्यापारस्तज्जन्यग्रामवृत्तिसंयोगानुकूल कर्मचानजादिरित्यन्वयबोधः । न च कारकविभक्तयर्थस्य धात्वर्थ एवान्वयनियमात्प्रत्ययोपस्थाप्य संयोगे कथं ग्रामादिवृत्तित्वान्दय इति वाच्यम् ? भूतले घट इत्यादौ घटादिपदार्थऽप्यधिकरणसप्तम्यर्थान्वयात्तादृशनिय मासिद्धेः । अस्तु वा धात्वर्णतावच्छेदकतावच्छेदकतया भासमाने संयोग एव तदन्वयः । फढव्यापारयोः पृथक्शक्तिमते चाश्रयत्वमेवात्मनेपदार्थः । संयोगावच्छिन्नक्रियारूपधात्वर्थं
एव व्यापाररूपधात्वर्यविशेष्यतया आश्रयत्व विशेषणतया चान्वेति । तदेकदेशे संयोग एव प्रामादिवृत्तित्वान्वयः । चैत्रीय कृतिजन्य व्यापारज"न्यग्राम वृत्तिसंयोगानुकूल क्रियाश्रयत्रानजादिरित्याकारको बोधः ज्ञानानुकूलशब्दश्च द्रव्यं निरूपयतीत्यादौ धातोरर्थः । तादृशीयविशिष्टैकार्थस्य एकदेशे ज्ञानांशे आधेयत्वान्वयबोधे च न द्वितीयायाः साकाङ्क्षता स्वीक्रियते, अपि तु विषयतया अन्त्रयबोध एवेति शिष्यं द्रव्यं निरूपयतोत्यादिर्न प्रयोगः ।
ननु शब्दः कथं सविषयक इत्याद शब्दस्य चेति । शब्दकार्यो बोधः तस्य सविषयकत्वात् याचितमण्डनन्यायेन शब्दस्याऽपि सविषयकत्वं सयुक्तिकमेवेतियुक्तिः । गतिबुद्धीत्यादिसूत्रेणेति ।
प्रसङ्गादत्र शास्त्रार्थप्रकारो विशिष्टः प्रकाश्यते । परत्वादन्तरङ्गत्वादुपजीव्यतयाऽपि च ।
प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता ।