________________
२२४
व्युत्पत्तिवादः ।
यत्तु धात्वर्थो ज्ञानमेव तदनुकूलव्यापारश्च णिजर्थ इति । तदसत् ! घातोश्चुराद्यन्तर्गततया स्वार्थ एव णिचो विधानात् । अन्यथा निरूपयतीत्यस्य ज्ञापयतीत्यादिसमशोलतया शिष्यं ज्ञापयतीत्यादिबच्छिष्यं निरूपयतीति प्रयोगस्य दुर्गारत्वात् । अजां ग्रामं यापयति शिष्यं शाखं ज्ञापयति ब्राह्मणमन्नं भोजयति यजमानं मन्त्रं पाठयति घटं जनयति नाशयतीत्यादी णिच्प्रत्ययप्रकृतिभूतधात्वर्थकर्तृवाचकाजादिपदोत्तरद्वितीयायाः मुख्यभाक्तसाधारणं कर्तृत्वमेवार्थः ? गतिबुद्धीत्यादिसूत्रेण कर्त्तः कर्मसंज्ञाविधानात् ।
गतिज्ञानोत्पत्त्यादिनिरूपितं कर्तृत्वं चाश्रयत्वमेव गलाधः संयोगानुकलक्रियानुकूलव्यापाररूप भोजनं कण्ठतालवाद्यभिघातरूपपाठनिरूपितं च तदनुकूलकृतिमत्त्वं नाशनिरूपितं च प्रतियोगिश्विम् । तस्य च निरूपकतासम्बन्धेन धात्वर्थेऽन्वयः ।
नव्यमते च यत्राश्रयत्वं कर्तृत्वं तत्रायत्वं द्वितीयार्थः । यत्रानुकू लकृतिमत्त्वं तत्र कृतिजन्यत्त्वं यत्र प्रतियोगित्वं तत्रानुयोगित्वं तेषां चाश्रयतासम्बन्धेनैव धात्वर्थेन्वयः गत्यर्थादिभ्योऽन्यत्र च णिच्प्रत्ययप्रकृतिधात्वर्थकर्तृवाचकपदाद् न द्वितीया ? तादृशकर्तुः कर्मतातिदेशाविषयत्वात् । तेन पाश्चत्ययोदनं सहायेनेत्यादय एव प्रयोगाः, न तु पाचयत्योदनं सहाय मित्यादयः ।
इति केचित् । कर्तृ संज्ञापवादकत्वेन “गति बुद्धीति" सूत्रम्बिधायकमेव नतु नि
यामकम् ।
नच कत्तु 'रिच्छाविषयत्वे " कत्तु रि”ति सूत्रेण कर्मत्वमत्र तु शत्र ूनगमयदित्यत्र शत्रूनितिकर्मेच्छाविषयमेव स्वर्गस्येति कथं कर्मसंज्ञेति वाच्यम् १ “कत्तु रि” तिसूत्रेः कर्तृपदन्धातूपात्तव्यापाराश्रयार्थकमेव नतु कर्तृसंज्ञाविशेषार्थकमिति तात्पर्यात् ' हेतु' मति चेत्यत्रापि धातूपात्तव्यापाराश्रयार्थकमेव कर्तृपदमानीतम्, “गतिबुद्धी”तिसूत्रेऽप्येवमेव । एवञ्च कर्तृ संज्ञाया नान्तरङ्गत्वन्नोपजीव्यत्वम् ।
नच चैत्रेण पाचयति मैत्र इत्यादौ चैत्रस्य प्रधानव्यापाराश्रयत्वाऽऽभावेन कत्त - त्वाsनापत्तौ तृतीया कथमिति वाच्यम् १ करणे तृतीयाविधानेन लक्ष्योपपत्तेः । एवञ्च "गतिबुद्धी" ति सूत्रन्नियमार्थकमेव नतु विध्यर्थकमिति फलति ।
नच नियमार्थकत्वे शत्रूनगम यत्स्वर्गमितिवत् शत्रुभिरगमयत्स्वर्गमित्यपि स्याद्विधायकत्वाभावादिति वाच्यम् १ “गतिबुद्धी'ति सूत्रं नियमद्वयार्थकमेव । तत्रैको नियमः पूर्वोक्तोऽपरश्च गत्यादीनां णौ कर्त्ता कर्मैव भवतीत्यनुपपत्तिविरहात् । निरूपकतासम्बन्धेनेति
अनां ग्रामं यापयतीति वाक्ये अजानिष्ठकर्तृतानिरूपकप्रामवृत्तिसंयोगजनको यो