________________
२२५
शास्त्रार्थकलोपस्कृतः । केचितु-पाकादिकर्तुः पाकादिकर्मत्वविरहेऽपि ण्यन्तसमुदायस्यापि धातुत्वेन तत्कर्मतया सहायादेः पाचयत्योदनं सहायमित्यादयः प्रयोगा अपि साधवः । अत एवाजिग्रहत्तं जनको धनुस्तदित्यादयो भट्टिप्रयोगाः । गतिबुद्धीत्यादिसूत्रं च नियमपरतया गत्यर्थधातुयोगे कर्तृप्रत्ययासाधुत्वज्ञापकम् । तेन पाचयत्योदनं सहायेनेत्यादिवद् अजया प्रामं यापयतीत्यादयो न प्रयोगा इत्याहुः । एषामयमाशयः, हेतुमति चेत्यनुशासनाद् णिजों हेतुकतृत्वम् तन्त्रम् । स्वतन्त्रकर्तृप्रेरणा अन्यनिष्ठकर्तृत्वनिर्वाहकव्यापाररूपा, कर्तृत्वं क्वचिदाश्रयत्वादिकं, याहशधातूत्तराख्यातेन याहशकर्तृत्वं बोध्यते तदुत्तरणिचप्रत्ययेन तादृशकतत्वनिर्वाहकव्यापारो बोध्यते । अत एव पाचयतीत्यादा पाकादिकृतिनि. वाहकः, ज्ञापयतीत्यादौ ज्ञानाश्रयत्व निर्वाहकः, नाशयतीत्यादौ नाशप्रतियोगित्वनिर्वाहको व्यापारः प्रतीयते । निर्वाहकत्वं च स्वरूपसम्बन्धविशेषः न तु जनकत्वम् । अतो न नाशयतोत्यादावनुपपत्तिः । एवं च ण्यन्तधातुप्रतिपाद्यतावच्छेदकं फलं कर्तृत्त्वमेव निर्वाह्यस्यैव फलत्वात् । तदाश्रयतया स्वतन्त्रस्य कर्तुः कर्मता, तादृशफलविशेषणतया स्वतन्त्रकतवृत्तित्वविवक्षायां पाच यत्योदनं सहायमित्यादयः प्रयोगाः । यदा तु पाकादिविशेषणतया सहायादिकत्वं विवक्षितं तदा पाचयत्योदनं सहायेनेत्यादयः।
अथ यत्र चैत्रमैत्रोभयकर्तृक एक एव पाकस्तत्र चैत्रमात्रं प्रयोजयत्ति यज्ञदत्तो मैत्रेणान्न पाचयतोति प्रयोगापतिरिति, तत्रापि ण्यर्थकृतावेव तृतीयान्तार्थमैत्रादिवृत्तित्वस्यान्वयो वाच्यः । एवं च मैत्रं पाचयतीत्याविवाक्यजन्यबोधावलक्षण्याद् द्वितीयातृतीययोस्तात्पर्यभेदेन व्यवस्थाया न संगत्तिरिति चेन्न ? अगत्या तत्र पाकादिविशेषणकृतेः पारतन्त्र्येण व्यापारविशेषणीभूणिजथंकृतावभेदान्वयमुपगम्योक्तातिप्रसङ्गस्य वारणीय. त्वात् । पदार्थकदेशे कृतौ पाकारिव कृतेरप्यन्वयो व्युत्पचिवैविण्यात् ।
वस्तुतः कर्तृत्वं व्यापारश्च पृथगेव णिजथैः । विशिष्टलाभोऽन्व. पबलात्। व्यापारस्तदनुकूलव्यापारवान् चैत्र इति । घटन्नाशयतीत्यत्रा घटनिष्ठ कर्तृतानिरूपकनाशानुकूल व्यापारवान्देवदत्त इति 10.. अथ यत्र चैत्रमैत्रोभयेति __ अस्मिन्प्रकरणे मैत्रम्पाचयतीतिन प्रयोगः किन्तु मैत्रेण पाचयतीत्येव, 'गतिबुद्धी" ति सूत्राप्राप्त। १५व्यु