________________
२२६
व्युत्पत्तिवादः। केचित्तु, अनुकूलव्यापार एवं णिजथः, तदन्वयिनो गमनभोजनक्रियैव धात्वर्थतावच्छेदकं फलं, तत्संबन्धिनस्तादशक्रियाकर्तुयॆन्तकर्मता । तादृशक्रियासम्बन्धश्चाश्रयत्वकृतिमत्त्वान्यतरो ग्राह्यः । अतो गमनादिसम्बन्धिकालादो नातिप्रसङ्ग इत्याहुः।
अत्र च तादृशकर्मतावाचकपदात् कदाचिद् द्वितीया कदाचित्तृतीया इत्यत्र नियामकाभावः । ताशपदोत्तरयोस्तयोस्तुल्यार्थकतया विवक्षाभेदरूपनियामकाभावादिति तु चिन्तनीय । अजा ग्राम थाप्यते चैत्रेगस्यादौ चैत्रकर्तृकव्यापारनिर्वाह्यं यदुग्रामवृत्तिसंयोगानुकूलक्रियाकर्तृत्वं तदाश्रयोऽजा इति बोधः । अत्र संयोगावच्छिन्नक्रिया धातुलभ्या, संयोगे ग्राममित्यादिद्वितोयान्तार्थप्रामादिवृत्तित्वान्दयबलात् प्रामादिवत्तिसंयो. गावच्छिन्नक्रिया लभ्यते । तादृश्या णिजर्थकतृत्वेऽन्वयः । कर्माख्याता. दिसमभिव्याहारनियन्त्रितव्युत्पत्तिबलाच्च तादृशक्रियान्वितकर्तृत्वं तृ. तोयान्तार्थचैत्रादिकर्तृत्वविशेषितव्यापाररूपापरणिजथै निर्वाह्यत्वसम्बन्धेन विशेषितम् । अजादिरूपकर्मोभूतं कर्तृविशेषणीभवदाख्याताश्रयत्वे विशेषणतया भासते । _ये तु गतिबुद्धोत्यादिसूत्रस्य संज्ञाविधायकत्वं वर्णयन्ति तेषामयमाशयः । व्यापार एव णिजथः तत्र धात्वर्थे क्रियायाः स्वकर्तृत्वनिर्वाहकत्वं संसर्गः । अतो न कर्तुः कर्मत्वं सूत्रान्तरप्राप्तन् । थाप्यते प्राममजा इत्यादौ स्वनिर्वाह्य कर्तृतानिरूपकत्वसम्बन्धेन व्यापारविरोषितधात्वर्थः कर्तृत्वेऽम्वेति । तच्चाश्रयत्वसम्बन्धेन अजादौ विशेषणतया भासते । तादृशव्यापारे ततीयान्तार्थस्य चैत्रादिकर्तृत्वस्य धात्वर्थकदेशे संयोगादिफले व द्वितीयान्तार्थस्य प्रामवृत्तित्वस्थ विशेषणतयों भानं ण्यन्तोत्तराख्यातस्यापि कर्तुं त्वमेवार्थः । तत्र च तस्य वृत्तिः क्लप्तव । तच्च उक्तस्य धात्वर्शस्य विशेष्यतया प्रथमान्तपदार्थस्य च विशेषणतया भासते । न च यक्समभिव्याहृताख्यातोपस्थाप्यककत्त, स्वस्यान्वयबोधोपगमे चैत्र इत्यतोऽपि गमनकत्ती चैत्र इत्यन्वयबोधः स्या. दिति वाच्यम् ? ण्यन्तोत्तरयक्सममिव्याहृतारूयातस्यैव कत्त त्वान्वयबोधनियामकत्वात् ।
अथैवमजा याप्यते इत्यादौ कतत्वस्याख्यातबोध्यत्वे कर्तरि शधित्यपवादविषयतया यकोऽसाधतापत्तिः । न य यादृशधातूचरं य, त्सावधातुकं विहितं तादृशधात्वर्थनिरूपितकर्तृत्वस्य तेन विषक्षाया. ननु गमनादिक्रियावन्यसंयोगरूपफस्य ग्रामादाविव स्वस्मिबपि विद्यमान