________________
२२०
व्युत्पत्तिवादः
एव द्वितीयार्था
अत्र धातुप्रतिपाद्यत्वं तदर्थतावच्छेदककोटिप्रविष्टसाधारणम्, गांदोग्धि पय इत्यादौ धावर्थतावच्छेदककोटिप्रविष्ट न्वयात् । तथाहि-क्षरणानुकलव्यापारो दुहेरर्थः । द्वितीयार्थश्च जनकत्वसम्बन्धेन क्षरणान्वयी विभागः । विभागे चाधेयतया प्रकृत्यर्थग वादेरन्वयः । एवं च धात्वर्थतावच्छेदकक्षरणरूपफले प्रधानकर्मक्षीराद्यन्वि तद्वितीयार्थवृत्त्यन्वय
-
इति गोनिष्ठविभागानुकूलपयोनिष्टक्षरणानुकूल व्यापारकर्त्ता मैत्र इति गां पयो दोग्धि मैत्र इति वाक्याधीनो बोधः । -न व विभागोपादानत्वमेवेति तद्विवक्षायां द्वितोयानवकाशेति वाच्यम् ? धातुवृत्तिग्रह विशेष्यान्वयिनो विभागस्यैवापादानत्वरूपत्वात् 1 वृक्षास्पर्ण पततीत्यादौ स्यन्दरूपविशेष्यांशे एव पञ्चम्यर्शविभागान्वयात् ।
वस्तुतो विभागावच्छिन्नक्षरणानुकूलो व्यापारो दुह्यर्थ: 1 गोपदोउत्तरद्वितीयार्थश्च विभागान्वयिनी वृत्तिरेव । नचैवं धार्थतावच्छेदकफलशालित्वरूपं कर्मत्वमेवात्रापि प्रतोयते इति नाकथितं चेत्यस्य वि
षय इति वाच्यम् ? धात्वर्थतावच्छेदकत्वस्य धातुवृत्तिग्रहविशेष्यांशे साक्षाद्विशेषणत्वरूपत्वात् । यत्र च क्षरणानुकूलव्यापारमात्रं धावतया विवक्षितं क्षरणान्वयिविभागश्च विभक्तयर्थतया तत्रापादानत्वबोधिका पचमी । एतेन कदाचिद्रां दोग्धि पयः, कदाचिच्च गोभ्यो दोग्धि पय इत्यत्र नानियमः |
अथवा गोभ्यो दोग्धि पय इत्यत्रापि विभागो धात्वर्थतावच्छेदककोटिप्रविष्ट एव । वृक्षाद्विभजते इत्यत्रेवावधिस्वरूपापादानत्व विविवक्षायां पञ्चमी, आश्रयत्वविवक्षायां च द्वितीया । अवधित्वं चाश्रयत्वादन्यदेव सम्ब न्धविशेषः ।
अत्र क्षरणान्वयिनः परसमवेतत्वस्य द्वितीयार्थत्वात् पयोनिष्ठक्षरणस्य पयोनिष्ठविभागजनकत्वेऽपि न पयः पयो दोग्धोति प्रयोगः । परत्वं विभागान्वयितावच्छेदकावच्छिन्नापेक्षया बोध्यम् । दुह्यते गौः क्षीर
च्छिन्नस्येति भावः ।
तदर्शतावच्छेदकेति — धात्वर्थतावच्छेदकेति फलति । क्षरणत्वञ्च द्रवत्वजन्यतावच्छेदिका क्षीरादिक्रियावृत्तिर्जातिरेव | आधेयत्वन्द्वितीयार्थ इति -- प्रकरणेऽस्मिन्नपि सम्भवतीत्यभिप्रायेणाह वस्ततुत इति । समानाकाररूपेण दुह्यर्थतां सर्वत्राह अथवेति ।
ननु पयोनिष्ठविभागजनकताप्रवर्त्तकं यत्पयोनिष्ठक्षरणन्तदनुकूलो व्यापारश्वैत्रेऽपीति -चैत्रः पयः पयो दोग्धीति रूपमापद्येतेति तात्पर्येणाह अत्र क्षरणान्वयिन इति ।