________________
शास्त्रार्थकलोपस्कृतः ।
त्वर्थः । तादृशस्वत्वरूपधात्वर्थतावच्छेदकफल एव द्वितीयार्थान्वयः । उपेक्षायामतिप्रसङ्गवारणाय परस्वत्वनिवेशः । दानं व न सम्प्रदा नस्वत्व जनकमपि तु तत्स्वीकार एवेति मते तु स्वस्वन्त्वध्वंसानुकूल परस्वत्वप्रकारिका इच्छैव ददात्यर्थः । तत्र स्वस्वत्वध्वंसरूपफलाश्रयत्वानस्य कर्मता । धनं प्रतिगृह्णातीत्यादौ स्वस्वत्व जन के च्छारूपस्वीकारविशेषो धातोरर्थः । स्वस्वरूपफले च द्वितीयार्थाधेयत्वान्वयः पचतोत्यादौ रूपपरावृत्तिजनकतेजः संयोगो धातोरर्थः । रूपादिपरावृत्तिफळे च तण्डुलादिवृत्तित्त्वान्वयः । ओदनं पचतीत्यादौ ओदनादिपदस्य तन्निष्पादकतण्डुलादौ लक्षणा 1 अवयविनि पाकानभ्युपगमे च तण्डुलं पचतीत्यादौ तण्डुलादिपदस्य तदारम्भकपरमाणुषु लक्षणा । ओदनं भुङ के इत्यादौ गलाघो नयनं धात्वर्थः । तच गलाघः संयोगावच्छि न्नक्रियानुकूलव्यापारः । तादृशक्रियारूपफल एव ओदनवृत्तित्वान्वयः । उक्तयुक्तचा गळाधोदेशस्य न कर्मत्वम् । एवमन्य सकर्मक धातूनामप्यर्थाः
तण्डुलं
२१९
स्वयमह्याः 1
गां दोग्धि पथ इत्यादौ द्विकर्मक धातुसमभिव्याहृतगवादिपदोत्तरद्वितीया क्रियाजन्य फलशालित्वादन्यदेव कर्मत्वं बोधयति ।
कारकाधिकारी येणाकथितं चेति
सूत्रेणापादानत्वादिभिन्नधातुप्रति
पाद्यान्वयिधर्मान्तरावच्छिन्नस्यापि कर्मसंज्ञाभिधानात् । गवां पयो दोग्धीत्यादौ धातुप्रतिपाद्यान्वयिगवादिसम्बन्धो न विविक्षितः, अपि तु क्षीराद्यन्वयो स इति कर्मत्वाविवक्षया द्वितीयानवकाशः, किन्तु शैषिको षष्ठयं वेति ।
उपतित इत्यादिरूपसिद्धिरिति नरके पतित इत्येवमेव युक्तिमिति चेन्न ? " द्वितीयाश्रिते" ? तिसूत्रे पतितशब्दोपादानेन द्वितीयाविधानात् ।
अयमभिप्रायः, अघस्संयोगावच्छिन्नक्रियार्थं कपत्धातुसमभिव्याहृतसुखाऽसम्भिन्नदुःखभोगावच्छेदकदेशविशेषार्थकनरकपदात्सप्तमी नतु द्वितीया । भोगानुकूलपातिस्यार्थकपत्धातुसमभिव्याहृतसुखाऽसम्भिन्नदुः खार्थं कनरकपदात् विषयत्वरूपकर्मत्वार्थिका द्वितीया नतु सप्तमी । अत्र प्रमाणं" द्वितीयाश्रिते "ति सूत्रसमासविधानमेवेति तवम् । उपेक्षायामिति ।
उपेक्षाच इन्धनम्मम माभूदित्याकारिका स्वस्वत्वनिवृत्तिपूर्वक तदनुकूलेच्छैव । दानान्तरं यदि कश्चिद् गृह्णाति तदा तदीयं स्वत्वन्निवर्त्तते प्रतिग्रहीतुश्च स्वत्वमुत्पद्यते । गान्दोग्धि पय इति -- अन्यदेव कर्मत्वमित्यस्य गौणकर्मत्वमेवेत्यर्थः । अपादानत्वादिभिन्नेति—- अपादानत्वादिभिन्नं यद्धातुप्रतिपाद्यान्वयि धर्मान्तरन्त दव