________________
रिवेति।
२१८
व्युत्पत्तिवादः अथात्र प्रामादेः प्रधानकर्मत्वं नास्त्येवापि तु गौणकर्मत्वमेव । अतः एव ताशकर्मत्वमाख्यातेन नाभिधीयते "प्रधानकर्मण्याख्येये लादोनाहुर्द्विकर्मणामि" स्यनुशासनादिति । अजां ग्रामो नीयते इत्यादिको न प्रयोग इति चेतईि ? तत्र प्रामादेरिवानापि धात्वर्थतावच्छेदकतावच्छेदक. फलशालित्वेन गौणकर्मत्वापत्त्या वहिं घृतं जुहोतीति प्रयोगापत्तिर्दु:
अस्मन्मते चाश्रयानवच्छिन्नसंयोगविषयताशालिधातुजन्योपस्थितिघटितसामग्रथा एव संयोगे द्वितीयार्थान्वयबोधप्रयोजकतया नैतादृशः प्रयोगापत्तिः। । यत्त अधःसंयोगावच्छिन्नस्पन्दो न पतत्यर्थः, अपि तु गुरुत्वजन्य. .तावच्छेदकजातिविशेषावच्छिन्न एव । अत एव फलावच्छिन्नव्यापाराबोधकत्वान्न सकर्मकत्वमिति । सन्न ? फस्य धात्वर्थाघटकत्वे स्पन्द एव सप्तम्यर्थान्वयस्योपगन्तव्यतया पर्णादिनिष्ठस्य भुतलावृत्तितया भूतले पततीति प्रयोगानुपपत्तेः। पर्णादिगतस्पन्दस्य परम्परया भूतळादिवृत्तित्वमिति चेतर्हि वृक्षात्पततीतिवत् वृक्षे पततीत्यपि स्यात् ।
अस्मन्मते चान्वत्र व्यापारे सप्तम्यर्थान्वयेऽपि अत्र व्युत्पत्तिवैचिज्यादधःसंयोगरूपधात्वर्थतावच्छेदक एव तदन्वयबोध इत्यदोषः ।
अन्येतु भूम्यादेः कर्मत्वविवक्षायां भूमि पततीति प्रयोग इष्ट एव । अत एव द्वितीयाश्रितेत्यादिसूत्रेण नरकं पतित इत्यादिस्थले द्वितीयासमासविधानमुपपद्यते । धात्वर्थतावच्छेदकतावच्छेदकफले द्वितोयार्थान्वय एवाश्रयानवच्छिन्नफलोपस्थितेरपेक्षा अग्नि जुहोतीतिवारणाय स्वीक्रियत इति वदन्ति !
तदपि न शोभनम् ? तथा सति भूम्यादिपदोत्तरं कदाचित्सप्तमी कदाचिद् द्वितीयेत्यत्र नियामकाभावप्रसङ्गात् । व्यापाराशे आधेयत्ववि. वक्षायां सप्तमी, फलांशे तद्विवक्षायां द्वितीयेत्यस्योक्तयुक्तथा फलांश एव सप्तम्यर्थान्वयस्यावश्यं स्वीकरणोयतया वक्तमशक्यत्वादिति । ब्राह्मणाय धनं ददातीत्यादौ स्वस्वत्वध्वंसविशिष्टपरस्वत्वानुकूला इच्छा धा.
द्विकर्मणामिति-"अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः" इतिपूर्तिः। पर. म्परयेति-स्वाश्रयप्रतियोगिकसंयोगवत्त्वसम्बन्धेनेत्यभिप्रायः। अपेक्षेति-नरकपदेन दुःख विशेषभोगाधिकरणं विलक्षणं स्थानम् । एवञ्च अघोदेशसंयोगस्य पत्धात्वर्थतावच्छेदकत्वाभावेन तत्र भूमिवृत्तित्वान्वये न क्षतिरिति गूढाशयः । वक्तुमशक्यत्वादिति ! यत्तु नरकस्याधिकरणाऽनवच्छिन्नधात्वर्थतावच्छेदकफलाश्रयत्वाऽभावेन कथन्नरक