________________
शास्त्रार्थकलोपस्कृतः । नचैवमपि फलावच्छिन्नव्यापारबोधकतया पतेः सकर्मकत्वव्यवहारापत्तिर्दुरेति वाच्यम् ? आश्रयानवच्छिन्नफलावच्छिन्नव्यापारबोधकवस्येव ताशब्यवहारनियामकत्वात् । ___ उत्तरदेशानवच्छिन्नसंयोगः फलं गम्यर्थतावच्छेदकमिति नानुपपत्तिः । अत एवाग्निसंयोगत्वावच्छिन्नक्रियानुकूलब्यापारस्य जुहोत्यर्थतया धात्वर्थतावच्छेदकसंयोगाश्रयस्यायग्नेनं तत्कर्मता। आश्रयावच्छिन्नावच्छेदकताश्रयफलवत्त्वविरहात् । संयोगनिष्ठाया अवच्छेदकताया आश्रयेणाग्निनाऽवच्छिन्नत्वात् । नचाग्निविशेषितसंयोगस्य धात्वर्थतावच्छेदकत्वे ऽग्नौ घृतं जुहोतीत्यत्रानन्वयप्रसंगः. उद्देश्यतावच्छेदकविधेययारक्यादिति वाच्यम् ? ___ तत्र संयोगनिष्ठायामुद्दश्यतायां वह राधेयतासंसर्गेणावच्छेदकतया सप्तम्यर्थस्याग्निवृत्तित्वस्य च विधेयतया उद्देश्यतावच्छेदकविधेययोरक्यानवकाशात् ।।
वस्तुतस्तु-तत्र वहेरनन्वयेऽपिन क्षतिः । व्युत्पन्नानां ताशप्रयोगस्याप्रामाणिकत्वात् । संस्कृते वह्नौ जुहुयादित्यादिस्थले च विधेयांशेऽधिकावगाहनान्नास्त्येवानुपपत्तिः। घृतादेशचाश्रयानवच्छिन्नधात्वर्थतावच्छेदकक्रियारूपफलाश्रयत्वात् कर्मत्वोपपत्तिः। ___ यत्त धात्वर्थतावच्छेदकत्वं धातुवृत्तिग्रहविशेष्यांशे साक्षात्कारत्वं तच्च क्रियायामेव न संयोगांशेऽपीतिनाग्नेर्जुहोतिकर्मतापत्तिरिति । तदसत् । अजां प्रामं नयतोत्यादौ संयोगावच्छिन्नक्रियानुकूलव्यारारादिरूपे धात्वर्थे संयोगादेः साक्षादप्रकारतया तदाश्रयीभूतग्रामादेः कर्मत्वा'नुपपत्त्या नीवहादेर्द्विकर्मकत्वव्याघातात् ।
ताविषयतेति-अधिकरणानवच्छिन्नविषयतेत्याशयः। नातिप्रसङ्ग इति भूमिम्पततीति न प्रयोगापत्तिः। ___ नचैवमपीति-फलेऽधिकरणानवच्छिन्नत्वप्रक्षेपेणोक्तप्रयोगवारणेऽपीत्याशयः। . उत्तरदेशानवच्छिन्नेति-संयोगानुकूलव्यापार एव गम्धात्वर्थ इत्याकूतम् । सत्र संयोगनिष्ठायामिति ।। : ननु सप्तम्यर्थाऽधेयत्वस्य व्यापारेऽन्वयः पूर्वमुक्तोऽत्र संयोगेऽन्वयाऽभिधानन्नोपपद्यत इति चेन्न १ द्वितीयार्थाऽधेयत्वस्य फलेऽन्वयबोधप्रति स्वप्रकृत्याधिकरणानवच्छिन्नफलनिष्ठविषयताकोपस्थितिः कारणम् । सप्तम्यर्थाऽधेयत्वस्य फलेऽन्वयबोघत्वावच्छिन्नम्प्रति स्वप्रकृत्यर्थाधिकरणावच्छिन्नफलनिष्ठविषयताकोपस्थितिः कारमिति स्थलद्वये विलक्षणकार्यकारणभावाश्रयणेनाऽक्षतेः ।