________________
व्युत्पत्तिवादः। धेयत्वान्वयासम्भवात् । सप्तम्यधोनाधेयत्वोपस्थितिसप्तमीसमभिव्याहारज्ञानघटिताया एव सामरस्तास्तादृशान्वयबोधनियामकत्वात् । द्वितीयासप्तम्योः समानार्थकत्वेऽपि व्युत्पत्तिभेदज्ञापनायैव पृथक् सूत्रेण तयोविंधानात्।
अथाधःसंयोगावच्छिन्नस्पन्दस्य पतधात्वर्थत्वात् धात्वर्थतावच्छेदकीभूतफले आधेयत्वान्वयतात्पर्येण भूभिं पततोति प्रयोगापत्तिः ? न च 'द्वितीयोपस्थिताधेयत्वप्रकारकफलविशेष्यकान्वयबोधे गम्यादिजन्यफलोपस्थितितत्समभिन्याहारज्ञानघटितसामग्च्येव प्रयोजिका, न तु पतधातुज. न्यतदुपस्थितिघटिता सामग्रीति नातिप्रसङ्ग इति वाच्यम् ? पतधातुनैव यत्र संयोगावच्छिन्नगमनं लक्षणादिनोपस्थापितं तत्र संयोगे द्वितोयार्थाधेयत्वान्वयात् । ___ अत्राहुः। धातुजन्यशुद्धसंयोगावच्छिन्नस्पन्दोपस्थितेः शाब्दबोधकारणताया अवच्छेदकघट कसंयोगविषयतायां अधिकरणानवच्छिन्नत्वं विशे. षणं देयम् । तथा च ताशविषयताशालिसंयोगाद्युपस्थित्यादिघटितसाम. रया एव संयोगविशेष्यकद्वितीयोपस्थाप्याधेयत्वान्वयबोधप्रयोजकत्वोपगमा. न्नातिप्रसङ्गः । मांख्यातसमभिव्याहारज्ञानं कारणमिति वैचित्र्यम् ।
व्युत्पत्तिभेदज्ञापनायेति-फलविशेष्यकाधेयत्वान्वयबुद्धित्वावच्छिन्नम्प्रति द्वि. तीयासमभिव्याहारज्ञानं कारणम् । व्यापारविशेष्यकाऽधेयत्वान्नयबुद्धित्वावच्छिन्नम्प्रति सप्तमीसमभिव्याहारज्ञानं कारणमिति बोधनायेत्याशयः। लक्षणादिनोपस्थापितमिति __ इयं लक्षणा भागत्यागलक्षणापदेन निर्विकल्पकशाब्दबोधे शिष्टैस्वीकृता । नच अधस्संयोगावच्छिन्नव्यापारो यदि पतधात्वर्थस्तर्हि तदेकदेशसंयोगावच्छिन्नव्यापारीऽपि तदर्थो भवेत् । एवञ्च कथम्भागत्यागलक्षणाश्रयणमिति वाच्यम् ? यद्धविच्छिन्नविषयताकश्शाब्दबोधश्चिकीर्षितस्तद्धर्ममात्रावच्छिन्नविषयताकशक्तिशानकारणमिति नियमः । तथाच संयोगावच्छिन्नव्यापारत्वावच्छिन्नविषयताकशाब्दबोधे संयोगावच्छिन्नव्यापारत्वमात्रावच्छिन्नविषयताकशक्तिज्ञानं कारणम् , एकदेशोयसंयोगावच्छिनव्यापारस्य स्वातन्त्र्येणोपस्थितिविषयत्वाऽभावात् ।
नचैवम्बिधकार्यकारणभावे गौरवमिति वाच्यम् ? तद्धर्मप्रकारकशाब्दबोधे तद्धर्मप्रकारकशक्तिज्ञानत्वेनैव कारणत्वाऽभिधानात् ।
अयमभिप्रायः, पशुपदं लोमवल्लाङ्गलावच्छिन्ने शक्तमितिविशिष्टशक्तिज्ञानेऽपि केवललाङ्गुलविशिष्टत्वेन मूषिकादेरपि पशुपदेन बोधापत्तेः । तथाच यत्रैकदेशपदार्थान्वयबोध इष्टस्तत्र लक्षणैव प्रमाणपुरस्सरा शरणमिति कृतान्तात् ।