________________
शास्त्रार्थकलोपस्कृतः।
२१५ वस्तुतस्तु, शाब्दबुद्धरधिविषयत्वे राज्ञः पुरुष इत्यादौ स्वस्वादेः संसर्गतानिराकरणावसरे सामग्रोप्रतिबन्धकतायां लाघवस्य दर्शितत्वाद् द्वित्तीयादेराधेयत्वमर्थः फलावच्छिन्नव्यापारश्च धातोरित्येव युक्तम् । कर्माख्यातस्य फलमर्थः । अन्यथा प्रामो गम्यते इत्यादी प्रामादेः व्यापारजन्यफलाश्रयत्वरूपकर्मत्वप्रतीत्यनुपपत्तेः । यादृश विशेष्यविशेषणभावापन्नयोः पदशक्यता, ताविशेषणविशेष्यभावापन्नयोरेव शाब्दबोघे भानसम्भवात् । न तु विपरीतविशेषणविशेष्यभावापन्नयोः ।
यत्तु फले धातोः पथक शक्त्युपगमात् व्युत्पत्तिवैचित्र्येण काख्यातसमभिव्याहारस्थले व्यापारविशेषणतया भासमानस्य फलस्य कर्माख्यातस्थले तद्विशेष्यतया भानमिति । तन्न ? पृथक शक्तिस्वीकारे शाब्दसामग्रन्थाः प्रतिबन्धकतायां विशिष्टविषयकोपस्थितिस्थले उपस्थितिद्वयकल्पने गौरवात् । गम्यादेः सम्पूर्वयुजिप्रभृतिसमानार्थकताभ्रमवतामिव विशेषदशिनामपि गमनं न स्पन्द इत्यादिवाक्यात्संयोगादौ स्पन्दभेदान्वयबोधापत्त दर्शिताया दुर्वारत्वाचव। संयोगादिविशेष्यकवृत्तिज्ञानजन्यतदुपस्थिति_टतायास्तथाविधान्वयबोधसामग्रथा अक्षतत्वात्। तत्तद्धातूपस्थाप्यव्यापारांशे तत्तद्विशेषणकबोधतात्पयज्ञानस्य तादृशान्वयबोधे प्रतिबन्धकताकपने गौरवादिति । फलस्य द्विधाभानं चेदनुभवविरुद्धं तदा पुनरनायत्या फलव्यापारयोः खण्डशश्शक्तिद्वय. मेव धातोः स्वीकरणीयम् । आख्यातस्याश्रयत्वमेव तत्रार्थः । अधिकमग्रे वक्ष्यते।
अथ द्वितीयाय। आधेयतार्थकत्वे व्यापार तदन्वयतात्पर्यण सप्तम्या. .इव द्वितीयाया अपि प्रयोगापत्तिः । न हि गृहे पचतीत्यादिवद् गृहं पचतीति कश्चित्प्रयुक्ते । मैवम् ? धात्वर्थतावच्छेदकफलांशे आधेयत्वान्वये एव तादृद्वितीयायाः साकाङ्कत्वकल्पनाद् व्यापारे तदुपस्थापिताप्रकारत्वव्यापारविशेष्यत्वयोर्विशेष्यविशेषणभावव्यत्यासेऽवच्छेदकगौरवमिति वाच्य. म् ? फलविषयकोपस्थितिव्यापारविषयकोपस्थित्योरेव प्रवेशे विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रथाः प्रतिबन्धकत्वे उपस्थितिद्वयस्य योग्यताज्ञानस्य च परस्परम्बिशेष्यविशेषणभावे विनिगमनावैकल्येन षट् प्रतिबध्यप्रतिबन्धकभावाः । विशिष्टशक्तिवादे तु विशिष्टोपस्थितेर्योग्यताज्ञानस्य च विशेष्यविशेषणभावे चत्वारःप्रतिबध्यप्रतिबन्धकभावाः इति विचारात् । प्रकृत्यर्थप्रत्ययार्थसंख्याविचारवदिति लाघवं स्पष्टमेव । . व्युत्पतिवैचित्र्येणेति-व्यापारविशिष्टफलविषयकशाब्दबोधे कर्माख्यातप्रथमान्तसमभिव्याहारज्ञानं कारणम् । फलविशिष्टव्यापारविषयकशाब्दबोधे द्वितीयान्वक