________________
२१४
व्युत्पत्तिवादः। नव्या वोधनोपगमात् । गुणो न गुणं गच्छतीत्यादिवाक्यस्य उभयमत एवाप्रमाणत्वात् । अस्तु वा तत्राभावस्य द्विधा भानोपगमेन गुणाभाववत्फलानुकूलस्पन्दाश्रयत्वाभाववान् गुण इत्याकारक एवान्वयबोधः ।
परे तु वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वे न व्यमतेपि द्रव्यं गच्छति नाभावमित्यादी गतिविरहः, तथा हि, समवायसम्बन्धावच्छिन्नायव द्वितीयार्थो वाच्यः, अन्यथा कालिकादिसम्वन्धावच्छिन्नमामादिवृत्तिसंयोगादिकमादायातिप्रसङ्गात् । तथा चाभावादिनिरूपिततथाविधाधेयत्वाप्रसिद्धय तदभाषबोधासम्भवः । निरूपित्तत्वसम्बन्धस्य च वृत्यानयामकतया समवायसम्बन्धावच्छिन्नाघेयतायां तत्सम्बन्धावच्छिन्नप्रतियोगिताकप्रकृत्यर्थाभावबोधो न सम्भवत्येवेत्याहुरिति । __ अत्रोच्यते-वृत्स्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वे
आधेयत्वं ससर्गः, विभक्तो संख्यामात्रमर्थः, फलावच्छिन्नो व्यापारः धात्वर्थ इत्येवोचितम् । अस्तु च व्युत्पत्तिवैचित्र्येण नामार्थधात्वर्थयोरपि साक्षान्वयबोधस्तथा सत्यतिप्रसङ्गस्य प्रागुपदर्शितप्रकारेण वारणसम्भवात् । नचैतत्कल्पे लाघवानवकाशः फले स्वतन्त्रशकथकल्पने सामग्रीप्रतिबन्धकतायां द्वितीयादिजन्यफलोपस्थितिर्धातुजन्यव्यापारोपस्थितिरिति उभयोपस्थित्यपेक्षया धातुजन्यविशिष्टविषयकोपस्थितेरेकस्या निवेशेन लाघवात्।।
ननु गुणो न गुणं गच्छतीत्यादौ आधेयत्वसम्बन्धावच्छिन्नप्रतियोगिताकगुणाs. भाववत्संयोगानुकूलव्यापारवान् गुण इत्येव शाब्दस्सच न युक्तः, उक्तव्यापाराश्रयत्वस्य गुणेऽभावादित्याशयेनाह गुणो न गुणमिति। __नच द्रव्यं गच्छति नाभावम् गुणो न गुणमित्यादावभावगुणपदोत्तरं कथन्द्वितीया, फर्मबोधकपदोत्तरं द्वितीया साध्वीत्यर्थस्य “कर्मणि द्वितीये" त्रिसूत्रेण सत्त्वादिति वाच्यम् ? "कर्मणि द्वितीये"त्यस्य कर्मत्वान्वयितया तात्पर्यविषयार्थकप्रातिपदिकाद् द्वितीयेतिसूत्रार्थस्तत्र कर्मत्वान्वयित्वञ्च साक्षात् नअर्थद्वारा चेतिव्याख्यानात् । ___ अतिप्रसङ्गादिति- ग्रामवृत्तिसंयोगानुकूलव्यापाररहिते चैत्रादौ ग्राम गच्छवीति प्रयोगापत्तेः। ___ व्युत्पत्तिवैचित्र्येणेति-आधेयत्वसम्बन्घावच्छिन्नप्रामादिनिष्ठप्रकारतानिरूपितधात्वर्थफलनिष्ठविशेष्यताकशाब्दबोधे द्वितीयान्तमामादिपदगम्यादिधातुसमभिव्याहार:कारणमिति कार्यकारणभावस्वीकारेणेत्याशयः। उभयोपस्थित्यपेक्षयेति-न च विशिष्टविषयकोपस्थितिप्रवेशेऽपि गौरवम्, फल