SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ शास्त्रार्थ कलोपस्कृतः । २१३: अथ फलस्य द्वितीयार्थत्वे भूमिं गच्छति न महोरुहमित्यादौ महीकहवृत्तिसंयोगादेर्जनकतासंबन्धावाभाव एव नञर्थो वाच्यः. स च वृत्य नियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकतया अप्रसिद्धः । नव्यमते तु द्वितीयार्थस्याधेयत्वस्य फलनिष्ठाभाव एव तथेति नानुपपतिः । न च भूमिकर्मकगमनकर्त्रादौ महोरुहकर्मकगमनकर्तृत्वाद्य भावः प्रतीयते इति वाच्यम् ? कर्तृवाचकपदासमभिव्याहारस्थले तदसंभवात् । न च तत्राप्याख्यातार्थान्वयबोधानुरोधेन कर्तृवाचकपदाध्याहारस्यावश्यकतया अध्याहृत पदोपस्थाप्य कर्त्तर्येव तादृशाभावो नया बोधथिष्यते इति वाच्यम् ? बाख्यातार्थविशेष्यकस्याप्यन्वयबोधस्य संभवेनाध्याद्दारस्यानावश्यकत्वात् । भूमेर्गमनं न महोरुहस्येत्यादौ द्वितीयासमानार्थकषष्ठ्यर्थाभावबोधकतया आवश्यकत्वाश्च । न हि तत्राप्याश्रयतासम्बन्धाबच्छिन्न प्रतियोगिताकगमनाभावः प्रतीयते इति सम्यक् । अनुयोग्यनुपस्थितेर्ननोऽनुयागिविनिर्मोकेनाभावबोधकतया भव्यु त्पन्नत्वादिति दकत्वे दोषः कः ? अथ जनकतादिसम्बन्धावच्छिन्न प्रतियोगिताकसंयोगाद्यभावस्यातिरिक्तस्य कल्पने गौरवमिति चेन्न ? ताद्वशाभावस्य संयोमजनकत्वाद्यभावसमनियतत्वेन तत्स्वरूपत्वात्तस्य चोभयवादिसिद्धत्वात् । अतिरिक्तप्रतियोगिता कल्पने गौरवमिति चेदस्त्वेतद् गौरवम् । उपदर्शितबहुवि'धलाघवेन ईदृशगौरवस्याकिंचित्करत्वात् । अथ फलस्य द्वितीयार्थत्वे वृत्य नियामक सम्बन्धस्याभावप्रतियोगिवावच्छेदकत्वेऽपि द्रव्यं गच्छति न गुर्गामित्यादौ गुणादिनिष्ठस्य संयोगादिरूपफलस्याप्रसिद्धया नञर्थान्वयबोधानुपपतिरिति चेन्न ? तत्राघेयता सम्बन्धावच्छिन्नप्रतियोगिताक प्रकृत्यर्थाभावस्यैव द्वितीयार्थ फले बोधः । चेन्न ? वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगितावच्छे वस्तुतस्तु- राज्ञः पुरुष इत्यादी संसर्ग तावादिमतखण्डनावसरेऽधिकपदार्थावगाहित्व एव प्रतिबध्यप्रतिबन्धकभावे लाघवम् । परन्तु तदभिप्रायम्विहायैवेयमुक्तिः । नमर्थो वाच्य इति । नवीनमते भूमिवृत्तियों महीरुहवृत्तित्त्वाऽभाववान् संयोगस्तदनुकूलव्यापारानुकूल- कृतिमानिति शाब्दबोधः । जनकत्वसम्बन्धावच्छिन्न प्राचीनमते तु जनकत्वसम्बन्धेन भूभिसंयोगविशिष्टो प्रतियोगिताकमहीरुहसंयोगाऽभावविशिष्टो यो व्यापारस्तदनुकूलकृतिमानिति शाब्द
SR No.008450
Book TitleVyutpattivada Shastrarthakala Tika
Original Sutra AuthorN/A
AuthorVenimadhava Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy