Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 233
________________ २२५ शास्त्रार्थकलोपस्कृतः । केचितु-पाकादिकर्तुः पाकादिकर्मत्वविरहेऽपि ण्यन्तसमुदायस्यापि धातुत्वेन तत्कर्मतया सहायादेः पाचयत्योदनं सहायमित्यादयः प्रयोगा अपि साधवः । अत एवाजिग्रहत्तं जनको धनुस्तदित्यादयो भट्टिप्रयोगाः । गतिबुद्धीत्यादिसूत्रं च नियमपरतया गत्यर्थधातुयोगे कर्तृप्रत्ययासाधुत्वज्ञापकम् । तेन पाचयत्योदनं सहायेनेत्यादिवद् अजया प्रामं यापयतीत्यादयो न प्रयोगा इत्याहुः । एषामयमाशयः, हेतुमति चेत्यनुशासनाद् णिजों हेतुकतृत्वम् तन्त्रम् । स्वतन्त्रकर्तृप्रेरणा अन्यनिष्ठकर्तृत्वनिर्वाहकव्यापाररूपा, कर्तृत्वं क्वचिदाश्रयत्वादिकं, याहशधातूत्तराख्यातेन याहशकर्तृत्वं बोध्यते तदुत्तरणिचप्रत्ययेन तादृशकतत्वनिर्वाहकव्यापारो बोध्यते । अत एव पाचयतीत्यादा पाकादिकृतिनि. वाहकः, ज्ञापयतीत्यादौ ज्ञानाश्रयत्व निर्वाहकः, नाशयतीत्यादौ नाशप्रतियोगित्वनिर्वाहको व्यापारः प्रतीयते । निर्वाहकत्वं च स्वरूपसम्बन्धविशेषः न तु जनकत्वम् । अतो न नाशयतोत्यादावनुपपत्तिः । एवं च ण्यन्तधातुप्रतिपाद्यतावच्छेदकं फलं कर्तृत्त्वमेव निर्वाह्यस्यैव फलत्वात् । तदाश्रयतया स्वतन्त्रस्य कर्तुः कर्मता, तादृशफलविशेषणतया स्वतन्त्रकतवृत्तित्वविवक्षायां पाच यत्योदनं सहायमित्यादयः प्रयोगाः । यदा तु पाकादिविशेषणतया सहायादिकत्वं विवक्षितं तदा पाचयत्योदनं सहायेनेत्यादयः। अथ यत्र चैत्रमैत्रोभयकर्तृक एक एव पाकस्तत्र चैत्रमात्रं प्रयोजयत्ति यज्ञदत्तो मैत्रेणान्न पाचयतोति प्रयोगापतिरिति, तत्रापि ण्यर्थकृतावेव तृतीयान्तार्थमैत्रादिवृत्तित्वस्यान्वयो वाच्यः । एवं च मैत्रं पाचयतीत्याविवाक्यजन्यबोधावलक्षण्याद् द्वितीयातृतीययोस्तात्पर्यभेदेन व्यवस्थाया न संगत्तिरिति चेन्न ? अगत्या तत्र पाकादिविशेषणकृतेः पारतन्त्र्येण व्यापारविशेषणीभूणिजथंकृतावभेदान्वयमुपगम्योक्तातिप्रसङ्गस्य वारणीय. त्वात् । पदार्थकदेशे कृतौ पाकारिव कृतेरप्यन्वयो व्युत्पचिवैविण्यात् । वस्तुतः कर्तृत्वं व्यापारश्च पृथगेव णिजथैः । विशिष्टलाभोऽन्व. पबलात्। व्यापारस्तदनुकूलव्यापारवान् चैत्र इति । घटन्नाशयतीत्यत्रा घटनिष्ठ कर्तृतानिरूपकनाशानुकूल व्यापारवान्देवदत्त इति 10.. अथ यत्र चैत्रमैत्रोभयेति __ अस्मिन्प्रकरणे मैत्रम्पाचयतीतिन प्रयोगः किन्तु मैत्रेण पाचयतीत्येव, 'गतिबुद्धी" ति सूत्राप्राप्त। १५व्यु

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296