Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 210
________________ २०२ व्युत्पत्तिवादः। श्रथ गुणादिवाचकपदोत्तरद्विवचनबहुवचनयोः कथं द्वित्वादिबोध. कता ? संख्याया गुणत्वेन गुणादौ बाधात् । न च तत्र स्वाश्रयसमवेतत्वादिसम्बन्धेन द्रव्यगतं द्वित्वादिकमेव भासते इति वाच्यम् ? एकव्यक्ता वपि तादृशसम्बन्धेन द्वित्वादेः परिसमाप्ततया एकमात्रतात्पर्यणापि द्विवचनाद्यापत्तिरिति चेत् ? न, अपेक्षाबुद्धिविषयत्वमेव तदुत्तरद्विवचनादिना बोध्यते । तच्चौकमात्रवृत्तिधर्मस्य प्रकृत्यर्थतावच्छेदकस्थले प्रकृत्यर्थतावच्छेदकव्याप्य. स्वविशिष्टपर्याप्तिसम्बन्धेन प्रकृत्यर्थेऽन्वेति । अन्यत्र शुद्धपर्याप्तिसम्बन्धेनेति न द्वन्द्वादिस्थलोक्तदोष इति विदुषांपरामर्शः। इति प्रथमाकारकम् । अत एव "कत्तरीप्सिततमङ्कर्म" इतिसूत्रघट केप्सितपदे "मतिबुद्धि"इति वर्तमाने क्तप्रत्ययेऽपि तदविवक्षयैव षष्ठी सिध्यति । एवम्प्रबन्धेनैव ग्रामं गमिष्यति ग्राममगमदित्यादौ कर्मत्वं सिध्यति । 'नच लडर्थवर्तमानत्वविवक्षायान्न मानमिति वाच्यम् ? "कत्त" इतिसौत्रप्रयोगानुपत्तः । अतएव "कर्मणि हनः" इतिणिनिविधानं संगच्छते । अत एव च मीमांसायां मौद्गश्वकर्भवतीतिवाक्ये सर्वकालावच्छेदेन यागीयचरूविधानं सुसंगतमित्यलम् । । तादृशसम्बन्धेनेति-स्वाश्रयसमवेतत्वसम्बन्धेनेति फलितार्थः । एकमात्रधर्मस्येति-एकमात्रवृत्तिधर्मस्येति तु नेवार्थों घटते रूपत्वरसत्वयोरेकमात्रवृत्तित्वाऽभावेन एकरूपादिमत्यपि वस्तुनि अत्र रूपे वर्त्तते इतिप्रयोगप्रामाण्यापत्तः। नात्र प्रकृत्त्यर्थतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेः प्रतीतिरित्यभिप्रायवर्णनात् । द्वन्द्वादिस्थलेति 1 पदभेदे द्वन्द्वः पदार्थभेदे द्वन्द्वः पदार्थतावच्छेदकभेदे वा द्वन्द्वः साहित्ये द्वन्द्वः । तत्र साहित्ये साहित्यावच्छिन्ने वा न द्वन्द्वः ? हिम विन्ध्याख्यपर्वतयोविभिन्नभूभागस्थत्वेन साहित्याऽभावात् हिमविन्ध्यावित्यत्र द्वन्द्वाऽनुपपत्तेः। नचैकक्रियान्वयित्वं साहित्यमिति नानुपपत्तिरिति वाच्यम् ? हिमविन्ध्यौ पश्य छिन्धि गच्छ पूजय हिमदिन्थ्यौ सुन्दरौ स्त इत्यादिषु तदभावात् । सूत्रार्थमर्यादया साहित्याऽननुभवाच्च । तथा च पदार्थभेदे द्वन्द्वः । नच "अप्येकदन्तहेरम्बलम्बोदरगजननाः" घटकलशौ नीलघटयोरभेदः, प्रमाणप्रभेयसंशयप्रयोजने" तिगौतमसूत्रे च द्वन्द्वानुपपत्तिः । द्वन्द्वापवाद एकशेष इतिनियमानुरोधेन घट इत्यत्र पदार्थमेदाऽभावेन द्वन्द्वाऽप्राप्त्या नियमभङ्गश्चेति वाच्यम् १ पदार्थत्वम्नाम पदजन्यप्रतीति विषयत्वम् तच्च पदार्थतावच्छेदकसाधारणम् तत्रापि प्रकारतारूपविषयतासत्त्वात्, घटा इत्यत्र घटे विशेष्यतारूपविषयतासत्त्वात्,

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296