Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 164
________________ व्युत्पत्तिवादः। : एवं सति नव्यपदं विना याशसमभिव्याहारम्थले यत्र धर्मिणि येन सम्बन्धेन यस्य विशेषणतया भानं तत्र नअसमभिव्याहारे तत्र धर्मिणि सत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावः प्रतीयते इति सर्वजनानुभव. स्यापलापापत्तेः । राज्ञः पुरुष इत्यादिवाक्यजन्याप्रामाण्यज्ञानानास्कन्दिसबोधदशायां पुरुषो न राज्ञ इत्यादिवाक्यादपि शाब्दबोधापत्तेः, स्वत्वाभावबुद्धौ स्वत्वसंसर्गकज्ञानस्य विरोधित्वे मानाभावात् । यदि स्वामित्वं षष्ठयर्थस्तदा स्वामित्वनिरूपकत्वेन पुरुषेण निरूपकतासम्बन्धेन स्वामित्वान्वयेऽपि राजनिष्ठस्वामित्ववान्पुरुष इति रीत्या पुरुषविशेष्यकबोधसम्भवेऽपि निरूपकतासम्बन्धस्य वृत्तिनियामकत्वाऽभावेन संसर्गाऽभावप्रतियोगितावच्छेदकसम्बन्धत्वाऽसम्बन्धात् पुरुषो न राज्ञ इत्यत्र नञ्पदेन निरूपकत्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वामित्वाऽभावप्रतीतिर्न सम्भवत्यतो न स्वामित्वस्य षष्ठयर्थतेति । स्वत्वस्य षष्ठयर्थत्वस्वीकारे त आश्रयतासम्बन्धेन स्वत्वम्पुरुषेऽस्तीति आश्रयत्वसम्बन्धश्च वृत्तिनियामक एवेति पुरुषे आश्रयत्वसम्बन्धेन राजस्वत्वाभावस्सम्भवत्येवेति आश्रयत्वसम्बन्धावच्छिन्नप्रतियोगिताकरराजनिरूपितस्वत्वाऽभाववान्पुरुष इति बोधसम्भवादित्याशयः। वृत्त्यनियामकस्य तादात्म्यसम्बन्धस्यान्योन्याभावप्रतियोगितावच्छेदकत्वं सम्भवतीत्याशयेनाह संसर्गाऽभावप्रतियोगितानवच्छेदकत्वादिति । संसर्गमर्यादया भानमुचितमिति । यदि न समभिव्याहारे षष्ठयारस्वत्ववाचकत्वस्वीकृतिस्तदा नजपदाऽभावेऽपि षष्ठयर्थस्वत्वस्य प्रकारतयैव भानम्प्रपद्येत । लाघवानुरोधेनोपस्थितार्थस्य यदि संसर्गतया प्रतीतिरस्यातर्हि पूर्वोक्तरीत्या राजपुरुष इत्यादावपि पुरुषपदोत्तरवर्त्तमानसुप्रत्ययार्थैकत्वसंसर्गाशे राजादिपदार्यान्वयाऽनन्तरं स्वसमानाधिकरणराजस्वत्वसम्बन्धेनैकत्वप्रकारकपुरुषविशेष्यकशाब्दबोधापत्तिरनिष्टा स्यात् । तथाच यत्पदार्थविषयकशाब्दबोधे यद्यदर्थोपस्थितेनैंयत्यन्तत्तदर्थोपस्थितेस्संसर्गमर्यादया भानन्नव भवतीति नियमोऽङ्गीकर्तव्यः । एवञ्च षष्ठयोपस्थितस्वत्वस्य न कथमपि ससर्गतया भानं युक्तमिति तत्त्वानुसन्धानम् । अत्र प्रसङ्गे परिहरति एवं सतोति । नम्पदं विनेत्यस्य फलन्तु चैत्रे पचत्यपि न पचतीतिप्रयोगवारणमेव । उक्तनियमाऽभावे समवायेन चैत्रे पाकानुकूलकृतिमत्वे सत्यपि संयोगसम्बन्धेन पाकानुकूलकृत्यभावबोधापत्तिः। नन्वेवमपि नञ्पदं विना भूतले घट इत्यत्र भूतलनिरूपितवृ. त्तित्ववान् घट इत्येव बोधः परन्तु स्वरूपसम्बन्धेन घटरूपामणि वृत्तित्वस्य सप्तम्यर्थस्य न विशेषणत्वम् । नञ्सभिव्याहारे तु स्वरूपसम्बन्धावच्छिन्नवृत्तित्वावच्छिन्नाऽभाव एवास्तु कथं घटाऽभावो भूतलवृत्तिरिति चेन्न ? नसमभिव्याहारे यत्सम्बन्धावच्छिन्नयद्धविच्छिन्नप्रकारताप्रयोजकत्वं सम्भवति तस्य नसमाभन्याहारे नअर्थाऽभावनिष्ठविशेष्यतानिरूपतप्रतियोगितानिरूपकत्वसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वेन यदि सञ्जिक्षितस्तदा तत्सम्बन्धावच्छिन्नतद्धमवि


Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296