Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 172
________________ १६४ व्युत्पत्तिवादः। तदतिरिक्ताविषयकत्वेन तादृशानुमितिं प्रति प्रत्येक ताहशवाक्यघटित. सामग्याः प्रतिबन्धकत्वद्वयम् । अस्मन्मते च तादृशानुमित्योस्तथाविधवाक्यजन्याद्राजकीयः पुरुष इत्येताहशबोधादतिरिक्तविषयकतया तत्र ताद्वशसामग्याः प्रतिबन्धकत्वकल्पनं नास्ति, तथाविधानुमितितथाविधशाब्दसामग्योश्च सत्योरनुमितेरेवोत्पत्तेः, अपि तु राजकीयः पुरुष इत्याकारकस्वत्वसंसर्गकैविधानुमिति प्रत्येव तादशसामन्याः प्रतिबन्धकत्वमेकं कल्पनीयमिति लाघवमिति । तदप्यकिञ्चित्करम । भवन्मते यत्र यादृशानुमितिः स्त्रीक्रियते अस्मन्मते. ऽपि तत्र तादृशानुमितेः स्वीकरणीयतयानुमितौ शाब्दसामरया: प्रतिबन्धकस्वसाम्याद्, उपदर्शितस्थले भवद्भिरनुमितिः स्वोक्रियते अस्माभिरपि स्वोक्रियते, कुतः प्रतिबन्धकताद्वयकल्पनमिति, भवतापि तादृशशाब्द प्रति ताद्वशानुमितिद्वयसामग्रोद्वयस्य प्रतिबन्धकसाया वाच्यतया साम्याच्च । एवं राजपुरुष इत्यादिसमासवाक्यात्स्वत्वसंसर्गकशाब्दवोधस्वीकारे तादृशशाब्दबोधसामग्रथाः स्वत्वसंसर्गण राजवि. शिष्टपुरुषतात्पर्यज्ञानादिघटिताया भिन्नविषयकप्रत्यक्षादिकं प्रति प्रतिबन्ध कत्वाधिक्येन गौरवात् । तत्र राजसंबन्धिप्रकारकाभेदान्वयबोधस्वीकार एवोचितः । न च भवन्मतेऽपि तादृशाभेदान्वयबोधसामग्रयाः प्रतिबन्धकताधिक्येन गौरवमिति वाच्यम् ? राजपदस्य राजसंघन्धिनि स्वारसिकलक्षणामहदशायामभेदसम्बविभिन्न विषयकप्रत्यक्षम्प्रति शाब्दसामग्रथाः प्रतिबन्धकत्वन्तथा समनाविषयकानुमितिम्प्रत्यपि शाब्दसामग्रथाः प्रतिबन्धकत्वमिति नियमः । इतोऽन्यत्सुगमम् । तदतिरिक्ताविषयेति-राजस्वत्त्ववान् पुरुष इतिशाब्दबोधनिरूपितविषयतावदतिरिक्ताऽविषयेति फलितम् । प्रतिवध्यतामेदेन प्रतिबन्धकभेदादाह प्रतिबन्धकताद्वयमिति । अत्र समानविषयकत्वन्तदीयविषयतावदतिरिक्ताऽविषयकत्वम्बोध्यम्। समानविषयकानुमितित्वावच्छिन्नम्प्रति शाब्दसामग्रथाः प्रतिबन्धकस्वम् । विभिन्नविषयकशाब्दम्प्रति तदनुमितिसामग्रथाः प्रतिबन्धकत्वम् । तदप्याकञ्चित्करमिति । प्रतिबध्यप्रतिबन्धकभावे साम्यमेवेत्याशयः । भवताऽपोति--पूर्वोक्तवाक्ये यथा प्रकारतावादिनामुक्तानुमितिद्वयम्प्रति पूर्वोतशाग्दसामग्रथाः प्रतिबन्धकत्वं सयुक्तिकन्तथा ससर्गतावादिनां स्वत्वसंसर्गकराज. प्रकारकपुरुषविशेष्यकशाब्दबोधम्प्रति पूर्वोक्तानुमितिद्वयसामग्रीद्वयस्य प्रतिबन्धकत्वेन कल्पनं सममेवेति तात्पर्य्यम् । उभयमतसिद्धत्वादिति । तथाच स्वत्वसंसर्गकरा

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296