________________
१६४
व्युत्पत्तिवादः। तदतिरिक्ताविषयकत्वेन तादृशानुमितिं प्रति प्रत्येक ताहशवाक्यघटित. सामग्याः प्रतिबन्धकत्वद्वयम् ।
अस्मन्मते च तादृशानुमित्योस्तथाविधवाक्यजन्याद्राजकीयः पुरुष इत्येताहशबोधादतिरिक्तविषयकतया तत्र ताद्वशसामग्याः प्रतिबन्धकत्वकल्पनं नास्ति, तथाविधानुमितितथाविधशाब्दसामग्योश्च सत्योरनुमितेरेवोत्पत्तेः, अपि तु राजकीयः पुरुष इत्याकारकस्वत्वसंसर्गकैविधानुमिति प्रत्येव तादशसामन्याः प्रतिबन्धकत्वमेकं कल्पनीयमिति लाघवमिति ।
तदप्यकिञ्चित्करम । भवन्मते यत्र यादृशानुमितिः स्त्रीक्रियते अस्मन्मते. ऽपि तत्र तादृशानुमितेः स्वीकरणीयतयानुमितौ शाब्दसामरया: प्रतिबन्धकस्वसाम्याद्, उपदर्शितस्थले भवद्भिरनुमितिः स्वोक्रियते अस्माभिरपि स्वोक्रियते, कुतः प्रतिबन्धकताद्वयकल्पनमिति,
भवतापि तादृशशाब्द प्रति ताद्वशानुमितिद्वयसामग्रोद्वयस्य प्रतिबन्धकसाया वाच्यतया साम्याच्च । एवं राजपुरुष इत्यादिसमासवाक्यात्स्वत्वसंसर्गकशाब्दवोधस्वीकारे तादृशशाब्दबोधसामग्रथाः स्वत्वसंसर्गण राजवि. शिष्टपुरुषतात्पर्यज्ञानादिघटिताया भिन्नविषयकप्रत्यक्षादिकं प्रति प्रतिबन्ध कत्वाधिक्येन गौरवात् । तत्र राजसंबन्धिप्रकारकाभेदान्वयबोधस्वीकार एवोचितः । न च भवन्मतेऽपि तादृशाभेदान्वयबोधसामग्रयाः प्रतिबन्धकताधिक्येन गौरवमिति वाच्यम् ?
राजपदस्य राजसंघन्धिनि स्वारसिकलक्षणामहदशायामभेदसम्बविभिन्न विषयकप्रत्यक्षम्प्रति शाब्दसामग्रथाः प्रतिबन्धकत्वन्तथा समनाविषयकानुमितिम्प्रत्यपि शाब्दसामग्रथाः प्रतिबन्धकत्वमिति नियमः । इतोऽन्यत्सुगमम् ।
तदतिरिक्ताविषयेति-राजस्वत्त्ववान् पुरुष इतिशाब्दबोधनिरूपितविषयतावदतिरिक्ताऽविषयेति फलितम् । प्रतिवध्यतामेदेन प्रतिबन्धकभेदादाह प्रतिबन्धकताद्वयमिति । अत्र समानविषयकत्वन्तदीयविषयतावदतिरिक्ताऽविषयकत्वम्बोध्यम्। समानविषयकानुमितित्वावच्छिन्नम्प्रति शाब्दसामग्रथाः प्रतिबन्धकस्वम् । विभिन्नविषयकशाब्दम्प्रति तदनुमितिसामग्रथाः प्रतिबन्धकत्वम् । तदप्याकञ्चित्करमिति ।
प्रतिबध्यप्रतिबन्धकभावे साम्यमेवेत्याशयः ।
भवताऽपोति--पूर्वोक्तवाक्ये यथा प्रकारतावादिनामुक्तानुमितिद्वयम्प्रति पूर्वोतशाग्दसामग्रथाः प्रतिबन्धकत्वं सयुक्तिकन्तथा ससर्गतावादिनां स्वत्वसंसर्गकराज. प्रकारकपुरुषविशेष्यकशाब्दबोधम्प्रति पूर्वोक्तानुमितिद्वयसामग्रीद्वयस्य प्रतिबन्धकत्वेन कल्पनं सममेवेति तात्पर्य्यम् । उभयमतसिद्धत्वादिति । तथाच स्वत्वसंसर्गकरा