________________
शास्त्रार्थकलो पस्कृतः
यत्तु राज्ञः पुरुष इत्यादौ राजस्वत्ववान पुरुष इत्याद्यन्वयबोधोपगमे राजकीयं स्वत्वं राजस्वत्वत्रान् पुरुष इत्याकारऋद्विविधानुमितेरेव ।
१६३
बाद एव गौरवम् । कारणसामग्रीत्वञ्च कारणकूटत्वम् । कूटत्वञ्च एकविशिष्टाऽपरत्वरूपम् । किन्तु संसर्गतावादे राज्ञः पुरुष इत्यत्र शेषत्वाऽभावेन षष्ठीविभक्तिरेव न सिद्धयेत् । यद्यपि कृष्णम्भट्टयां षष्ठ्या द्योतकत्वनिरर्थकत्वं वेति प्रतिपादितमस्ति तथापि “षष्ठी शेष" इति सूत्रप्रवृत्त्यभावेनाभीष्टश्शाब्दबोध एव न स्यात् । तथाचोपस्थित्यादिगौरवेऽपि प्रकारतावादपक्ष एव योग्य इति षष्ठीविधानसिद्धिरिति सरयूपारीणशुक्लाः ।
राज्ञः पुरुष इति ।
अत्र कुशाग्रबुद्धयः
संसर्गतावादिनिकाये स्वत्वसम्बन्धेन राजविशिष्टः पुरुष इत्याकारकशान्दबुद्धिस्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाऽभावव्याप्यस्वत्व सामा
स्वावच्छिन्नम्प्रति
न्याऽभाववान् पुरुष इति निश्वयस्य तदभावव्याप्यवत्तानिश्चयरीत्या प्रतिबन्धकत्वापप्तिः । किञ्च स्वत्वमम्बन्धेन राजविशिष्टः पुरुषः इति शाब्दबुद्धित्वावच्छिन्नम्प्रति स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाऽभावव्याप्यराजस्वत्वाभाववान् पुरुष इति निश्चयस्य प्रतिबन्धकत्वन्दुर्वारम् । किञ्च स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाऽभावव्याप्यं यत् निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाऽभाववत्स्वत्वं तद्विशिष्टः पुरुष इति निश्चयस्यापि तदभावव्याप्यवत्तारीत्या प्रतिबन्धकानन्त्यमापद्येत । तत्तत्प्रतिबन्धकाऽभावमात्रस्य शाब्दसामग्रीघटकत्वेन विभिन्नविषयकप्रत्त्यक्ष सहस्रत्वावच्छिन्नप्रति प्रतिबन्धकत्वेऽनन्तानन्तगौरवम् । स्वत्वं षष्ठयर्थ इति प्रकारतावादिनिकाये तु राजस्वत्वाऽभावव्याप्यराजाऽभाववान्पुरुष इत्येकविधनिश्चयस्यैव प्रतिबन्धकत्वन्तत्प्रतिबन्धकाऽभावरीत्या तत्तदभावस्यैव कारणत्वमिति नियमः । विभिन्नविषयकप्रत्यचसामा प्रवेशोऽपि गौरवमिति महल्लाघवम् ।
किञ्च प्रकारतावादेऽवच्छेदकताधिक्यगौरवश्च । तथा हि स्वाऽभावाधिकरणनिरूपितवृत्तित्वाऽभावस्यैव व्याप्यत्वेन तद्वत्तानिश्चयस्य राजत्वनिष्ठाऽवच्छेदकतानिरूपितनिरूपितत्त्वसम्बन्धावच्छिन्नराजनिष्ठाऽवच्छेदकता निरूपित स्वत्वत्वनिष्ठाऽवच्छेदकतानिरूपितस्वत्वनिष्ठप्रतियोगिताकाऽभावो नास्तीति सार्वजनीनव्यवहारसिद्धतालद्वयावली - ढावच्छेदकतासाध्याभावाधिकरणनिरूपितवृत्तित्वन्नास्तीति प्रतीतिसिद्धाऽभावावगाहि
निश्चयस्य कतिपयांशे तालत्रयावलीढावच्छेदकताघटितप्रतियोगिताकाऽभावविषयकतया तन्निश्चयनिष्ठप्रतिबन्धकतायाः तादृशनिश्चयाऽभावनिष्ठसामग्रीविधया कारणत्वेऽधिकाबच्छेदकत्वम् । तत्तद्विषयानुरोधेन प्रतिबन्धकत्वकारणत्वयोश्च कल्पनेन महागौरवप्रयास इत्याहुः ।
पुनरपि वक्ष्यमाणप्रकारेण संसर्गतामतं खण्डयितुम्प्रयतते यत्विति । यथा