________________
व्युत्पत्तिवादः ।
बाधधियामभावा अपि नवेति । एवम् उक्तनवविधबाधव्याप्यसंसर्गतावादिमतसिद्धैके बाघ विषयकाणां राजस्वत्वाभावव्याप्यराजाभाववान् पुरुषः, राजस्वत्वव्यापकाभावव्याप्यराजाभाववान् पुरुषः, राजस्वत्त्ववदवृत्तिव्याप्यराजाभाववान् पुरुषः इत्यादिनिश्चयानां समविद्यतिविधानामभावाः सप्तविंशतिसंख्याकाः ।
एवं संसर्गतावादिमत सिद्धेषु त्रिषु बाधेषु मध्ये द्वयोर्द्वयोविंशेष्यविशेषणभावे विनिगमनाविरहेण एकबाधविशिष्टापरबाधे प्रकारतावादिमत सिद्धबाधनवकान्तर्गतैकैकबाधव्याप्यत्त्वमवगाहमानानां राजस्वत्वाभावव्याप्यराजाभावविशिष्टराजव्यापकाभाववान् पुरुषः १ राजस्वत्वाभावव्याप्यराजव्यापकाभाव विशिष्टराजाभाववान् पुरुषः २ राजस्वत्वाभावव्याप्यराजव्यापकाभावविशिष्टराजवदवृत्तिमान् पुरुषः ३ राजस्वत्वाभावव्याध्यराजवदवृत्तिविशिष्टराजव्यापकाभाववान् पुरुषः ४ राजस्वत्वाभावव्याप्यराजाभावविशिष्टराजवदवृत्तिमान् पुरुषः ५ राजस्वत्वाभावव्याप्यराजवदवृत्तिविशिष्टराजाभाववान् पुरुषः ६ इति रीत्या चतुष्पञ्चाशविधचाघनिश्चयानामभावाश्चतुष्पश्चाशत्सङ्ख्याकाः ५४ शाब्दसामग्रीकोटी प्रवेश्याः ।
एवं संसर्गतामतोक्तानां त्रयाणां परस्परविशेष्यविशेषणभावे विनिगमनाविरहेण एकैकबाधविशिष्टापरबाधविशिष्टापरबाधे प्रकारतावादिमतसिद्धबाधनवकान्तर्गतैकैकबा
१६२
धव्याप्यत्वमवगाहमानानां राजस्वत्वाभावव्याप्यराजाभावविशिष्टराजव्यापकाभावविशिष्टराजस्वत्ववदवृत्तिमान् पुरुषः राजस्वत्वाभावव्याप्यराजस्वत्ववदवृत्तिविशिष्टराजव्यापकाभावविशिष्टराजाभाववान् पुरुषः इत्यादि निश्चयानामभावाश्चतुष्पञ्चाशत्सङ्ख्याकाः उक्तवाक्यघटित सामग्रीकोटौ निवेशनीयाः ।
सर्वेषामेव सङ्कलने च प्रकारतावादिमते १४४ चतुश्चत्वारिंशदधिकशतसङ्ख्याकानामभावानां शाब्दसामग्रोकोटी प्रवेशः पर्यवसन्न इति प्राहुः ।
स्वत्वस्य प्रकारतया संसर्गतया वा भानमितिविचारे प्रचलिते केचिद्विशिष्टाः । प्रकारतावादे राज्ञः पुरुष इत्यत्र राजपदार्थोपस्थितिस्वत्वपदार्थोपस्थितिपुरुषपदा
र्थोपस्थितीनान्तदनुकूलयोग्यताज्ञानाकांक्षाज्ञानतात्पर्यज्ञानाऽऽसत्तिज्ञानानाम्बाधनिर्णयाऽभावद्वयस्य च प्रवेशे नवकारणानां शाब्दबोधसामग्र्याम्प्रवेशः । तत्र विशेष्यविशेषणभावे विनिगमनावैकल्येन कार्यकाले ह्येतत्कारणज्ञानानन्तरमेतत्कारणज्ञानमेतत्कारणं गृहीत्वैतत्कारणज्ञानमित्येवम्प्रकारे प्रचलिते त्वपरिमितकार्यकारणभावापत्तिः ।
संसर्गतावादे तु
राजपदार्थोपस्थितिपुरुषपदार्थोपस्थितियोग्यताकांक्षासत्तितात्प
र्याणामेकविधबाधनिश्चयाऽभावस्य च प्रवेशे सप्तकारणानां शाब्दबोधसामग्रयां प्रवेशस्तत्र विनिगमनावैकल्येन विशेष्यविशेषणभाववैपरीत्ये तु मूलभित्तिमारम्य कार्यकारणभावविचारे प्रकारतावादाऽपेक्षयाऽतीव संसर्गतावादे लाघवम् ।
किञ्चैतद्विडम्बनाऽपेक्षया शाब्दबोधे कियदुपस्थितीनां कारणत्वमिति प्रश्ने प्रकारतावादे ह्युपस्थितित्रयं संसर्गतावादे ह्युपस्थितिद्वयमित्युपस्थितिविचारकाण्डे प्रकारता