________________
शास्त्रार्थकलोपस्कृतः । अस्मन्मते तादृशोपस्थितितथाविधबाधाभावादीनां तथाविधवाक्यजन्यशाब्दबोधं प्रत्यहेतुतया तादृक्षवाक्यघटितसामग्रोप्रतिबन्धकतायां तेषामनिवेशादिति वाच्यम् ? भवन्मतेऽपि स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्यराजस्वस्वाभाववान्पुरुष इत्यादिनिश्चयस्य तदभावब्याप्यवत्तानिश्चयमुद्रया
तादृशवाक्यजन्यशाब्दधीविरोधितया तादृशनिश्चयाभावस्य तथाविधसामग्रोप्रतिबन्धकतायां निवेशनस्याधिक्येन लाधवानवकाशात् । मन्मते राजम्वत्वाभाववान् पुरुष इत्यादिबाधकाभावनिवेशेनैव तादृशनिश्चयकाले प्रत्यक्षाभ्युपपत्तेस्तदभावानिवेशात् । पितत्वसम्बन्धेन राजाऽभाववत्स्वत्वमित्येवंविधो यो बाधस्तदभावशानस्याऽपि प्रतिबन्धकत्वम् । आश्रयतासम्बन्धेन राजस्वत्त्वाऽभाववान्पुरुष इत्येवंविधो यो बाधस्तदभावज्ञानस्याऽपि प्रतिबन्धकत्वं लभ्यत इति उपस्थितित्रयस्य बाधाऽभावद्वयस्य च प्रतिबन्धकत्वं प्राप्तं मिलित्वा पञ्चानां पदार्थानां प्रकारतावादिमते प्रतिबन्धकत्वं प्राप्नोतीति गौरवानुसन्धानम् । __ प्रकारतावादिमते पञ्चानाम्पदार्थानाम्प्रत्यक्षप्रतिबन्धकत्वं संसर्गतावादिमते तु द्विविधोपस्थितेरेकविधवाधाऽभावस्य च प्रतिबन्धकत्वेन त्रयाणामेव पदार्थानाम्प्रतिब. न्धकत्वं प्राप्नोतीति तत्त्वविमर्शः। संसर्गतावादी स्वकीयमते लाघवं स्पष्टयति अस्मन्मत इति । _राज्ञः पुरुष इत्यादौ प्रकारतावादिनाम्मते स्वत्वं षष्ठयर्थः, राजनिरूपितं यत् स्वत्वं तादृशस्वत्त्ववान् पुरुष इति बोधो जायते । संसर्गतावादिनान्नये तु न स्वत्वं षष्ठयर्थः किन्तु संसर्गः। स्वत्वसम्बन्धावच्छिन्नराजत्त्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छि. नविशेष्यताकबोधसम्पत्तिः। तत्र बाधादिमहागौरवभीत्या संसर्गतावाद एवं युज्यते तथा हि, अत्र मिथिलादेशालङ्कारभूता विद्वज्जनमुकुटायमानाः श्रीवक्तचाझामहोदयास्तु प्रकारतापक्षे राजस्वच्वाभाववान् पुरुषः १ राजस्वत्त्वव्यापकाभाववान् पुरुषः २ राजस्वववदवृत्तिमान् पुरुषः ३ स्वत्त्वाभाववान् पुरुषः ४ स्वत्त्वव्यापकाभाववान् पुरुषः ५स्वत्त्ववदवृत्तिमान् पुरुषः ६ निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्स्वत्वम् ७ राजव्यापकाभाववत्स्वत्वम् ८ राजवदवृत्तिमस्वत्वञ्च ९ इति नवविधबाधा जायन्ते । तद्वत्ताबुद्धिम्प्रति तदभाववत्तानिश्चयस्य प्रतिबन्धकत्वमिव तद्व्यापकाभाववत्तानिश्चयस्य तद्वदत्तिधर्मवत्ता निश्चयस्य तदसमानाधिकरणधर्मवत्तानिश्चयस्य तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयस्य तव्यापकतावच्छेदकतया गृहीतध
विच्छिन्नाभाववत्तानिश्चयत्त्वेन च प्रतिबन्धकत्वात् । संसर्गतावादिनां मते च स्व: स्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववान् पुरुषः १ राजव्यापकाभाववान पुरुषः २ राजवदवृत्तिमान् पुरुषः इति बाधत्रयमेव । एवञ्च प्रकारतावादिनां मते नवविध११ व्यु०