________________
व्युत्पत्तिवादः मन्मते तादृशप्रत्यक्ष प्रति तथाविधसामप्रथाः प्रतिबन्धकताधिक्येऽपि निरूपितत्वादिसंबन्धावच्छिन्नप्रतियोगिताकराजाद्यभावविशिष्टस्वत्वादिवैशिष्टयबोधे तथाविध सामाग्रथाः प्रतिबन्धकत्वाऽकल्पनेन तदंशे साम्यात् । तथाच पूर्वोक्तराजस्वत्वाभाववान् पुरुषः सुन्दरः इत्यादिविशिष्टवै. शिष्टयप्रत्यक्षं प्रति राज्ञः पुरुष इस्यादिसामग्ख्याः प्रतिबन्धकत्वकल्पनं संसर्गतावादिनां मतेऽधिकमिति ।
न च स्वत्वादेः प्रकारतामते घट प्रत्यक्षादिकं प्रति ताशसामग्रोप्रतिबन्धकतायां विभक्तिजन्यस्वत्वाशुपस्थितिनिवेशाधिक्येन राजस्वत्वाभाववान्पुरुष इत्यादिबाधाधभावनिवेशाधिक्येन च गौरवम् ।
वम्विशिष्ट वैशिष्टयावगाहिप्रत्यक्षम्प्रति राज्ञःपुरुष इतिशाब्दसामग्रया:पृथक् प्रति. बन्धत्वकल्पने गौरवन्तथैव प्रकारतावादिनोऽपि मते स्वत्त्वसम्बन्धेन राजाऽभाववान्पुरुषस्सुन्दर इति प्रत्यक्षम्प्रत्यपि राज्ञःपुरुष इत्येवम्विधशाब्दसामग्रथाः प्रतिबन्धकत्वकल्पनाऽपत्तौ गौरवं सममेव । संसर्गतावादिनस्तु न गौरवं राज्ञःपुरुष इत्यत्राऽपि स्वत्वसम्बन्धेन राजवान्पुरुष इत्येव बोधस्साम्प्रदायिकस्तथाचैतन्छाब्दम्प्रति स्वत्वसम्बन्धेन राजाऽभाववान् पुरुष इत्येव बाधः बाधाऽभावो योग्यता, बोधसामग्री च सदा बाधाऽभावघटिता सती तिष्ठति । राज्ञःपुरुष इतिशाब्दबोधसामग्रथाश्च स्वत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाद्यभाववत्तानिश्चयाऽभावघटितत्वेन कारंणाऽभावादेव न प्रतिबन्धकत्वम् । प्रकारतावादिमते तु प्रतिबन्धकत्वकल्पनेन साम्यमेव कथं संसर्गतावादिमते गौरवमिति वाच्यम् ? एवं सन्देहे प्रकारतावादी प्रत्युत्तरम्प्रवक्ति मन्मत इति । निरूपितत्वसम्बन्धेन राजाऽभाववत्स्वत्त्वम्प्रमेयमिति निरूपितत्वसम्बन्धेन राजाभावविशिष्टे स्वत्वे प्रमेयत्ववैशिष्टयावगाहिप्रत्यक्षम्प्रति राज्ञःपुरुष इतिशाब्दसामग्रथास्संसर्गतावादिमते प्रतिबन्धकत्वकल्पनेन गौरवम् । प्रकारतावादिनान्तु न गौरवन्निरूपितत्वसम्बन्धेन राजाऽभाववस्वत्वमिति ज्ञानस्यैव वाधत्वेन तदघटितत्वान्न प्रतिबन्धत्वकल्पनम् । संसर्गतावादिनां तु स्यादेवेति तत्त्वम् ।
प्रकारतामते संसर्गतावादी पुनरपि गौरवम्प्रकाशयति नच स्वत्वादेःप्रकारतामते इति ।
स्वत्त्वस्य प्रकारत्त्वस्वीकारेऽनुपस्थितपदार्थस्य प्रकारत्त्वाऽसम्भवात् ङस्पदेनैव स्वत्त्वोपस्थितिरेवञ्च विभिन्नविषयकप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रथाःप्रतिबन्धकत्वमिति नियमानुरोधेन शाब्दसामग्रथाःप्रतिबन्धकत्वं सर्वसम्मतभिति शाब्दसामग्रीघटकानां सर्वेषामेव पदार्थानाम् प्रतिबन्धकत्वं समायाति । अर्थाद्राजपदजन्यरा. जोपस्थितिङसपदजन्यस्वत्वोपस्थितिपुरुषपदजन्यपुरुषोपस्थितिसमुदायस्य प्रतिबन्धकस्वम्प्राप्नोति । एवम्वाधाऽभावरूपयोग्यताज्ञानस्य हि शादसामग्रीघटकत्वेन निरू