________________
१५९
शास्त्राथकलोपस्कृतः । अन्याशप्रत्यक्षस्थलीयप्रतिबन्धकतया च न त्वन्मते निर्वाहः । अ. न्यत्रायविधप्रत्यक्षेच्छानामुत्तेजकतया तादृशेच्छायामसत्यां चोपदार्शतविशिष्टवैशिष्टयबोधत्वप्रकारेच्छायलादुपदर्शितविशिष्ट वैशिष्टयवोधोपपत्तये अन्यादृशविषयताया एत्र प्रतिबध्यतावच्छेदकत्वोपगमावश्यकत्वात् ।
न च स्वत्वादेः प्रकारतामतेऽपि म्वत्वादिसंबन्धावच्छिन्नप्रतियोगिताकराजाद्यभावविशिष्टपुरुषा देवैशिष्टयबोधे तथाविधसामग्रया: प्रतिवन्धकताधिक्येन गौरवम । तत्संसर्गतामते ताशसामग्रथाः स्वत्वादिसंबन्धावच्छिन्नप्रतियोगिताकराजाद्यभाववत्तानिश्चयाभावघटिततया तत्सत्वे कारणविरहादेव तथाविधप्रत्यक्षवारणसंभवादिति वाच्यम् ? ध्यप्रतिबन्धकभाव इति लाघवम् । अतस्स्वत्वस्य प्रकारतयैव भानमिति प्रकारतावा. दिमतञ्ज्यायस्तमिति ।
ननु विभिन्न विषयकप्रत्यश्चत्वावग्छिन्नम्प्रति शाब्दसामग्रथाःप्रतिबन्धकत्वमितिनियमे किम्प्रमाणम्फलञ्चेति प्रश्नः ? प्रत्यक्षत्वशाब्दबोधत्वयोस्साङ्कर्यभीत्या प्रत्यक्षशाब्दबोधोमयमामग्रीसम्पत्तावपि समूहालम्बनन्न भवति तथा ज्ञानेच्छादीनामेककालावछेदेनाऽसम्मवादेककालावच्छेदेन ज्ञानद्वयन सम्भवति । एकज्ञानस्य प्रतिवध्यत्वं यदि मन्यते यथा प्रत्यक्षसामग्री शाब्दबोधम्प्रतिबध्नातीति कथ्यते चेत्तर्हि अखिलशाब्दसामग्रीकाले मानसप्रत्यक्षसामग्रथा योग्यताज्ञानादेस्सत्वेन शाब्दबोधत्वावच्छिन्नभेवोन्छिन्नं स्यात्तथा च शाब्दसामग्रघा एव प्राबल्येन प्रत्यक्षप्रतिबन्धकत्वमिति "विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रथाःप्रतिबन्धकत्वमिति सिद्धी नियमस्सर्वव्यवहृतश्च फलश्च स्फुटतरमेव । अन्यादृशप्रत्यक्षेति ।
अयमभिप्रायः, राशःपुरुष इत्याकारकशाब्दबोधसामग्रीसत्त्वे घटप्रत्यक्षसामग्रीसत्त्वे यदि घटप्रत्यक्षेच्छा जायते तदा घटप्रत्यक्षम्भवत्येव । शाब्दबोधस्तु नैव भवति किन्तु घटप्रत्यक्षमेव ! पटादिप्रत्यक्षन्तु नैव भवति । एवञ्च घटप्रत्यक्षेच्छाविरह विशिष्टशाब्दबोधसामग्रथाःपटप्रत्यक्षम्प्रति प्रतिबन्धकत्त्वम् । पटप्रत्यक्षस्य च प्रतिबध्यत्वम् । एवञ्च पृथगेव विशिष्य कार्यकारणभावोऽङ्गीकार्यः ।
राजस्वत्त्वाऽभाववान्पुरुषस्सुन्दर इत्याकारकप्रत्यक्षेच्छाविरहृविशिष्टशाब्बोधसामप्रथा एतत्प्रतिबध्यत्वम् । एवञ्च पृथगेव प्रतिबध्यप्रतिबन्धकभावाऽपत्तिसत्त्वेन संसर्ग: तावादिनाम्मते गोरवन्दुरिमेव ।
अग्रे प्रकारतावादिमते संसर्गतावादी प्रतिवन्दिभावेन दोषं समुद्घाटयति न चस्वत्वादेःप्रकारतामतेऽपोति । पराऽभिमतसमाधिसमाधेयमुत्तरम्प्रतिवन्दिरिति हेतुलक्षणम् । अयमाशयः, यथा संसर्गतावादिमते राजस्वत्त्वाऽभाववान्पुरुषस्सुन्दर इत्ये