________________
१५८
व्युत्पत्तिवादः साहशसामप्रधाः प्रतिबन्धकताकल्पनाधिक्ये गौरवात् । अस्मन्मते ताह. शसमभिव्याहारघटितसामप्रथा राजस्वत्वाभाववान् पुरुष इत्यादियाधाभावघटिततथा तत्सत्त्वे विशेष्यतावच्छेदकादिप्रकारकनिश्चयरूपकारणविरहादेव तथाविधविशिष्ट वैशिष्टयावगाहिप्रत्यक्षोत्पत्त्यसम्भवेन ता. दृशसामग्रथास्तत्र प्रतिबन्धकत्वस्याकल्पनात् ।
स्येति । अयम्भावः, यथा दण्डाद घटस्तथा गगनन्न पारिमाण्डल्यादितिवाक्यप्रामाणिकत्वं सार्वजनीनम् । तत्र दण्डजन्यो यथा घटस्तथा पारिमाण्ड ल्यजन्यो नाकाम इत्येवम्बोधो नैव स्यात "पारिमाण्डल्यभिन्नानां कारणत्वमदाहतम्पारिमाण्डल्यमणपरिमाणं कारणत्वन्तद्भिन्नानामेव" तथाचाणुपरिमाणरूपपारिमाण्डल्यस्य कारणत्वाऽभावेन तन्निष्ठजनकतानिरूपितजन्यत्वस्याऽप्रसिद्ध त्वेनोक्तवाक्यस्याऽप्रामाणिकत्वभीत्या जन्यत्वसम्बन्धावच्छिन्नप्रतियोगिताकपारिमाण्डल्याऽभाववद् गगनमितिबोधापादनम् । तथाच प्रकृते वृत्त्यनियामकस्य जन्यत्बसम्बन्धस्य यथा प्रतियोगितावच्छेदकत्वन्तथा विनिगमनाविरहेण सम्बन्धान्तरस्य वृत्त्यनियामकस्याऽपि प्रतियोगितावच्छेदकत्वं सुदृढम् । द्रव्यं गच्छति नामावमित्यादिवाक्यसिद्धये वृत्यनियामकसम्बन्धस्याऽप्यभावप्रतियोगितावच्छेदकत्त्वमिति विचारो द्वितीयायां त्फुटीकरिष्ये । किञ्च कुण्डलादिस्वामिन्यपि कुण्डलाऽसंयुक्त कुण्डली देवदत्त इति भवत्यपि तु न कुण्डली देवदत्त इत्येव । तत्र संयोगसम्बन्धस्य वृत्त्यनियामकत्वेन कुण्डली न देवदत्त इत्यस्य कथङ्कारं सिद्धिरतो वृत्त्यनियामकस्याऽप्यभावप्रतियोगितावच्छेदकत्वमित्यपि केषाश्चिन्महानुभावानामनुभवः । ___ अथ प्रकृतग्रन्थाशयः, स्वत्वस्य वृत्त्यनियामकस्याऽभावप्रतियोगितावच्छेदकरवस्वीकारेऽपि स्वस्य प्रकारत्वमेव युक्तन्नतु संसर्गत्वम् । तथाहि, विभिन्न विषयकप्रत्यक्षत्वावस्छिन्नम्प्रति शाब्दबोधसामग्रयाःप्रतिबन्धकत्वमिति नियम उभयवादिसम्मतः। विषयैक्ये बाध्यबाधकभावो भवति नतु विषयभेदे । बाधाऽभावो योग्यता राज्ञः पुरुषः राजस्वत्वाऽभाववान्पुरुषस्सुन्दर इतिज्ञानयोःपरस्परं विभिन्न विषयत्वमस्ति राजस्वत्वाऽभावविशिष्टे पुरुषे सुन्दरत्ववैशिष्ट्यम् । विशिष्टवैशिष्टयावगाहि राजस्वत्वाउभाववान्पुरुषस्सुन्दर इति प्रत्यक्षम् । एवञ्च राज्ञःपुरुष इतिशाब्दबोधसामग्रोकाले राजस्वत्वाऽभाववान्पुरुषस्सुन्दर इत्येवम्विधविशिष्टवैशिष्टथावगाप्रित्यक्षम्नेष्यते परन्तु संसर्गतावादिमते राज्ञःपुरुष इत्यत्र स्वत्वसम्बन्धेन राजवान्पुरुष इत्येव शान्दबोधःरा. जस्वत्वाऽभाववान्पुरषस्सुन्दर इतिप्रत्यक्षश्च } सामग्रीदयसम्पत्ती राशःपुरष इत्यत्रत्यशाब्दबोधसामग्रथास्संसर्गतावादिमते प्रतिबन्धकत्वकल्पनेन गौरवम् । प्रकारता. वादिमते तु राज्ञःपुरुष इतिशाब्दबोधसामग्रथास्ताहशराजस्वत्वाऽभाववान्पुरुष इतिबाधाऽभावघटितत्वेन शाब्दबोधकाले प्रत्यक्षसामग्रथाचचैव नास्तीति कथम्प्रतिव