________________
शास्त्रार्थकलोपस्कृतः वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वेऽपि
राकाः पुरुष इत्यादौ राजस्वत्वादेः प्रकारताभ्युपगमः समुचितः । अन्यथा तादृशसमभिव्याहारज्ञानघटितशाब्दसामग्रीकाले राजस्वत्वाभाववान् पुरुषः सुन्दर इत्याकारकविशिष्टवैशिष्टयावगाहिप्रत्यक्षवारणाय तत्र च्छिन्नप्रतियोगितानिरूपकत्वसम्बन्धावच्छिन्नप्रकारताप्रयोजक एव भवतीत्यर्थः । तथाच भूतलवृत्तिता न तादृशप्रकारताप्रयोजकत्वेनेष्टेति तत्वम् । राज्ञःपुरुष इत्यत्र स्वत्वस्य संसर्गतया भानम्पुरुषो न राज्ञ इत्यत्र च स्वत्वस्य प्रकारतया भानमिति वैषम्यन्न सम्भवति ? प्रतियोग्यभावान्ययौ तुल्ययोगक्षेमौ भवत इति न्यायात् । उदाहरणम् घटवभूतलमित्यत्र धर्मिणि भतले संयोगसम्बन्धेन घटपदार्थस्य विशेषणतया भानमत एव भूतलन्न घटवदित्यत्र तस्मिन्नेव धर्मिणि भूतले संयोगसम्बन्धावच्छिन्नप्रतियोगिताकघटाऽभावप्रतीतिरुपपद्यते तद्वत् राशः पुरुष इत्यत्र यदि नमोऽसत्त्वे स्वत्त्वसम्बन्धेनैव पुरुषपदार्थे राजपदार्थस्य विशेषणतया प्रतीतिस्यात्तर्हि विनिगमनाविरहेण “यश्चोभयोस्सम' इति न्यायेन च नसत्त्वे पुरुषो न राज इत्यत्रापि स्वत्वसम्बन्धावच्छिन्नराजत्वावच्छिन्नप्रतियोगिताकाभावस्यैव पुरुषप. दार्थे प्रतीतिरनिष्टापतेत्सा च नैव युक्ता, स्वत्वस्य वृत्त्यनियामकत्वेन प्रतियोगितावच्छेदकत्वाऽसम्भवात् । किञ्चोक्तवाक्ययोवैषम्ये दूषणान्तरमाह समानप्रकारकसमानसंसर्गकज्ञानग्यैव विरोधित्वमितिनियमोऽत एव घटवभूतलम् पटाऽभाववद्भूतलमितिवाक्ययोर्न विरोधः परस्पर विभिन्न विषयत्वात् । एवञ्च संससगैतावादिमते राज्ञः पुरुष इत्यत्र स्वत्वसम्बन्धेन राजवान् पुरुष इत्येव स्वत्वसंसर्गको बोधः । पुरुषो न राज्ञ इत्यत्र राजस्वत्वाऽभाववान्पुरुष इति स्वत्वप्रकारकबोध इति समानप्रकारकस. मानसंसर्गकज्ञानस्यैव विरोधित्वनियमेन राज्ञःपुरुष इति बोधकालेऽपि पुरुषो न नराश इति वाक्याच्छाब्दापत्तेरनिवार्यत्वात् ।
एवं हि विशिष्ट नियमःप्रतिबध्यप्रतिबन्धकभावीयः पूर्वोक्तः, तत्सम्बन्धावन्छि. भतधर्मावच्छिन्नप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालिलौकिकसन्निकर्षाजन्यः दोषविशेषाजन्याऽनाहार्यबुद्धित्वावच्छिन्नम्प्रति तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगिताकाऽभावत्वावछिन्नप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशाल्यनाहा-- ऽप्रामाण्यज्ञानाऽनास्कन्दितनिश्चयत्वेन प्रतिबन्धकतेति । अत एव संयोगेन वह्निमान्प वंत इतिनिश्चयम्प्रति समवायेन वह्नयभाववान्पर्वत इतिनिश्चयस्य न प्रतिबन्धकत्वम् । तथा च प्रकृते स्वत्वसंसर्गकराजप्रकारकपुरूषविशेष्यकनिश्चयस्य राजस्वत्वाऽभाववान्पुरुष इतिज्ञानम्प्रति न प्रतिबन्धकत्वमिति स्वच्छतात्पर्यम् । वृस्यनियामकस. म्बन्धस्याऽभावप्रतियोगितानवच्छेदकत्वकल्पे दूषणप्रदर्शनपूर्वकं स्वत्वस्य प्रकारत्वम्प्रवर्ण्य प्रतियोगितावच्छेदकत्वकल्पेऽपि दूषणपुञ्जम्प्रदर्शयति वृत्त्यनियामकसम्बन्ध