________________
व्युत्पत्तिवादः। : एवं सति नव्यपदं विना याशसमभिव्याहारम्थले यत्र धर्मिणि येन सम्बन्धेन यस्य विशेषणतया भानं तत्र नअसमभिव्याहारे तत्र धर्मिणि सत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावः प्रतीयते इति सर्वजनानुभव. स्यापलापापत्तेः । राज्ञः पुरुष इत्यादिवाक्यजन्याप्रामाण्यज्ञानानास्कन्दिसबोधदशायां पुरुषो न राज्ञ इत्यादिवाक्यादपि शाब्दबोधापत्तेः, स्वत्वाभावबुद्धौ स्वत्वसंसर्गकज्ञानस्य विरोधित्वे मानाभावात् ।
यदि स्वामित्वं षष्ठयर्थस्तदा स्वामित्वनिरूपकत्वेन पुरुषेण निरूपकतासम्बन्धेन स्वामित्वान्वयेऽपि राजनिष्ठस्वामित्ववान्पुरुष इति रीत्या पुरुषविशेष्यकबोधसम्भवेऽपि निरूपकतासम्बन्धस्य वृत्तिनियामकत्वाऽभावेन संसर्गाऽभावप्रतियोगितावच्छेदकसम्बन्धत्वाऽसम्बन्धात् पुरुषो न राज्ञ इत्यत्र नञ्पदेन निरूपकत्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वामित्वाऽभावप्रतीतिर्न सम्भवत्यतो न स्वामित्वस्य षष्ठयर्थतेति । स्वत्वस्य षष्ठयर्थत्वस्वीकारे त आश्रयतासम्बन्धेन स्वत्वम्पुरुषेऽस्तीति आश्रयत्वसम्बन्धश्च वृत्तिनियामक एवेति पुरुषे आश्रयत्वसम्बन्धेन राजस्वत्वाभावस्सम्भवत्येवेति आश्रयत्वसम्बन्धावच्छिन्नप्रतियोगिताकरराजनिरूपितस्वत्वाऽभाववान्पुरुष इति बोधसम्भवादित्याशयः। वृत्त्यनियामकस्य तादात्म्यसम्बन्धस्यान्योन्याभावप्रतियोगितावच्छेदकत्वं सम्भवतीत्याशयेनाह संसर्गाऽभावप्रतियोगितानवच्छेदकत्वादिति । संसर्गमर्यादया भानमुचितमिति । यदि न समभिव्याहारे षष्ठयारस्वत्ववाचकत्वस्वीकृतिस्तदा नजपदाऽभावेऽपि षष्ठयर्थस्वत्वस्य प्रकारतयैव भानम्प्रपद्येत । लाघवानुरोधेनोपस्थितार्थस्य यदि संसर्गतया प्रतीतिरस्यातर्हि पूर्वोक्तरीत्या राजपुरुष इत्यादावपि पुरुषपदोत्तरवर्त्तमानसुप्रत्ययार्थैकत्वसंसर्गाशे राजादिपदार्यान्वयाऽनन्तरं स्वसमानाधिकरणराजस्वत्वसम्बन्धेनैकत्वप्रकारकपुरुषविशेष्यकशाब्दबोधापत्तिरनिष्टा स्यात् । तथाच यत्पदार्थविषयकशाब्दबोधे यद्यदर्थोपस्थितेनैंयत्यन्तत्तदर्थोपस्थितेस्संसर्गमर्यादया भानन्नव भवतीति नियमोऽङ्गीकर्तव्यः । एवञ्च षष्ठयोपस्थितस्वत्वस्य न कथमपि ससर्गतया भानं युक्तमिति तत्त्वानुसन्धानम् । अत्र प्रसङ्गे परिहरति एवं सतोति । नम्पदं विनेत्यस्य फलन्तु चैत्रे पचत्यपि न पचतीतिप्रयोगवारणमेव । उक्तनियमाऽभावे समवायेन चैत्रे पाकानुकूलकृतिमत्वे सत्यपि संयोगसम्बन्धेन पाकानुकूलकृत्यभावबोधापत्तिः। नन्वेवमपि नञ्पदं विना भूतले घट इत्यत्र भूतलनिरूपितवृ. त्तित्ववान् घट इत्येव बोधः परन्तु स्वरूपसम्बन्धेन घटरूपामणि वृत्तित्वस्य सप्तम्यर्थस्य न विशेषणत्वम् । नञ्सभिव्याहारे तु स्वरूपसम्बन्धावच्छिन्नवृत्तित्वावच्छिन्नाऽभाव एवास्तु कथं घटाऽभावो भूतलवृत्तिरिति चेन्न ? नसमभिव्याहारे यत्सम्बन्धावच्छिन्नयद्धविच्छिन्नप्रकारताप्रयोजकत्वं सम्भवति तस्य नसमाभन्याहारे नअर्थाऽभावनिष्ठविशेष्यतानिरूपतप्रतियोगितानिरूपकत्वसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वेन यदि सञ्जिक्षितस्तदा तत्सम्बन्धावच्छिन्नतद्धमवि