________________
शास्त्रार्थकलोपस्कृतः न हि तत्र स्वत्वादिसंबन्धावच्छिन्नप्रतियोगिताकराजाद्यभाव एव प्रतीयते न तु राजस्त्रत्वाद्यभाव इति संभवर्वात स्वत्वादिसंबन्धस्य वृत्त्यनियामकतया प्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नप्रतियोगिता. काभावाप्रसिद्धः । अत एव स्वामित्वादिकं परित्यज्य स्वत्वादेः षष्ठ्यर्थत्वं नवीनाः स्वीकुर्वन्ति । स्वामित्वादेः षष्ठयर्थत्वे तस्य निरूपकतासंबन्धेन पुरुषांशेऽन्वयसंभवेऽपि ताशसंबन्धस्य वृस्यनियामकतया संसर्गाभावप्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नाभावस्य नया प्रत्यायनासंभवात् ।
भाश्रयतासंबन्धाद्यवच्छिन्नाभावबोधस्यैतादृशसमभिव्याहारस्थलेऽभ्युपगमे चैत्रादिसबन्धिान धनेऽपि आश्रयतासंबन्धावच्छिन्नप्रतियोगिताकचैत्र. वृत्तिस्वामित्वाभावसत्वान्नेदं चैत्रस्येति प्रयोगापत्तिः । न च नन्समभि. व्याहारस्थलानुरोधेन षष्ठयादेः स्वत्वादिवाचकत्वेऽपि राज्ञः पुरुष इत्यादौ षष्ठयाद्यर्थस्य संसर्गमर्यादया भानमुचितम् । तस्य प्रकारत्वोपगमे तत्संबन्धस्याधिकस्य भानकल्पनेन गौरवात् । नबसमभिव्याहारस्येव तत्प्रकारकबोधनियामकत्वाभ्युपगमेन सामग्रीबलात् तत्प्रकारकबोधस्य तदसमभिव्याहारस्थलेऽसंभवादिति वाकयम ?
बुद्धेरप्रतिबन्धकत्वात् । किञ्च राशो नेदं स्वमिति निश्चयस्य राज्ञः पुरुष इतिसामान्यनिश्चयम्प्रति तिबन्धकत्वानापत्तः ।
अथ स्वत्वस्य संसर्गत्वेन प्रतीतौ नअघटितवाक्ये राजस्वत्वप्रतियोगिकाऽभावबोधो न स्यात् । स्वत्वस्य संसर्गत्वेन प्रतियोगितावच्छेदकसम्बन्धत्वेनैव प्रतीतेः। प्रकारतापक्षे तु स्वत्वस्याऽपि पदार्थत्वेन स्वत्वप्रतियोगिकाऽभावप्रतीतिया॑यस्येवेति । नहीति ! समवायस्वरूपकालिकदिककृतविशेषणताश्रयत्वसंयोगादीनामेव वृत्तिनियामकसम्बन्धानां प्रतियोगितावच्छेदकसम्बन्धत्वं भवति । येन सम्बन्धेन यः पदार्थो यत्र वर्तते तेनैव सम्बन्धेन तत्रैव तत्पदार्थस्याऽभावोऽपि नञा प्रत्येतव्यः । प्रकृते स्वत्वसम्बन्धेन राज्ञः पुरुषे नहि स्थितिर्भवति येन स्वत्वस्य वृत्तिनियामकत्वं स्यात् । तथा च वृत्तिनियामकत्वाऽभावेन स्वत्वस्य प्रतियोगितावच्छेदकत्वाऽभावात् स्वत्वसम्बन्धावच्छिनप्रतियोगिताकाऽभावस्य कचिदपि प्रसिद्धत्वाऽभावाच्च ।
__ एवञ्च स्वत्वस्य प्रकारत्वमेव नैव संसर्गत्वम् । आश्रयतासम्बन्धेति । आश्रयत्वप्रतीतिनियामकस्वरूपसमवायादिसम्बन्धेत्याश्चयः। वस्तुतस्तु वह्निमानयन्देश इति निश्चयदशायां समवायसम्बन्धेन संयोगसम्बन्धेन वा अत्र वह्निरितिसंशयदर्शनात् आश्रयत्वं सम्बन्धविशेष इति शास्त्रयुक्तिसिद्धान्तः । अत एवेति । वृत्यनियामकसम्बन्धानां प्रतियोगितावच्छेदकसम्बन्धत्वाऽभावादेवेत्यर्थः।