________________
व्युत्पत्तिवादः
१५४
एवं पचति चैत्र इत्यादावपि कृतिसंबन्धेन पाका देश्त्रेऽन्वय बोधस्वोकार उचितः । अन्यथोक्तरीत्या गौरवात् तत्र तादृशान्त्रयबोधस्वीकारे तत्स्थलीयसामप्रोबलात्, पच्यते चैत्रः, पाकचैत्र, इत्यादौ तथाविधान्वयबोधापत्तेरप्युक्तरीत्या वारणसंभवादिति ।
मैवम् । राज्ञः पुरुष इत्यादौ षष्ठयादेः स्वत्वादिवा वाचकत्वमावश्यक' म् । अन्यथा परुषो न राज्ञ इत्यादौ पुरुषे राजस्वत्वाद्यभावबोधानुपपत्तेः। एवमिति ।
नैयायिकमते प्रथमान्तार्थमुख्य विशेष्यको बौधस्तथाच कृतिसम्बन्धेन पाकपदार्थस्य चैत्रादावन्वय इति कृतेस्संसर्गत्वमेवोचितन्नतु वाच्यत्वेन प्रकारत्वम् । अन्यथा द्वितीयार्थकर्मत्ववदिहापि कृतेराश्रयत्वसम्बन्धकल्पनेन गौरवमतः कृतेरपि संसर्गत्वमेवेति । पाकश्चैत्र इत्यादौ तु नापत्तिस्तत्र तिबन्तपचतिपदसमभिव्याहारस्य कारणत्वात् तथाच संसर्गतावाद एव लघीयानिति प्रश्नाशयः ।
अत्र तदादिपदस्य वृत्तिग्रहमुख्य विशेष्यपरामर्शकत्वमत एव "नहि प्रजावतीयम्मे त्वं तस्मै देहि कम्बलमित्यत्र तत्पदेन प्रजावतीशब्दार्थभ्रातृजायाघटक भ्रातृपरामर्शाभावस्सङ्गच्छते । तथाच
दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः । चैत्रो ग्रामगतस्तत्र मैत्रः किं क्रियतेऽधुना ॥
इतिश्लोकघटकराजमातङ्गा इत्यादी राजादिपदस्य राजसम्बन्ध्यादौ लक्षणास्वीकारे तत्पदेन वृत्तिमहमुख्य विशेष्यत्वाऽभावेन राजादिपदार्थपरामर्शो न स्यादतोऽपि संसर्गतावाद एवं गरीयान् । इति केचित्तन्न ? " दाणश्च सा चेच्चतुर्थ्यर्थ" इतिपाणिनिसूत्रे तत्पदेन "समस्तृतीयायुक्तादि"तिसूत्रीयाऽप्रधानतृतीयापदार्थपरामर्शदर्शनेन सर्वनाम्नामुत्सर्गतो बुद्धिस्थमात्रपरामर्शकत्वमेव नतु वृत्तिग्रहमुख्यविशेष्य परामर्शकत्वम् । एवञ्च पूर्वोक्तलाघवप्रकार एव मूलग्रन्थं संयोजयतीति शुक्ला: । मैवमिति ।
संसर्गतावादिमतं लाघवानुगृहीतमपि प्रतिक्षिपन् प्रकारतावादिमतम्परिष्कुरुते मैवमिति । अयमाशयः, अनुपस्थितस्य प्रकारतया भानन्न भवतीति तदुपस्थितये षष्ठास्स्वत्वे शक्तिकल्पनं कर्त्तव्यं येन स्वत्वस्य प्रकारत्वमिष्टं सिद्ध्येत् । नन्वितः पूर्वग्रन्थविषयदर्शनेन सम्बन्धत्वेनैव वाच्यतोपलभ्यते नतु स्वत्वेनात्र स्थले तु स्वत्वेनैबेति कथं ग्रन्थसङ्गतिरिति चेन्न १ सम्बन्धत्वेन तत्तद्रूपेण चेति “षष्ठी शेष” इतिसूत्रभाष्योक्त्या सामान्यरूपेण विशेषरूपेण च षष्ठ्यर्थप्रतीतिर्यद्यपि तथापि लोकार्थबोधनाय विशेषरूपेण स्वत्वादिनैव वाच्यता युक्ता । सामान्यरूपेण सम्बन्धत्वेन वाच्यत्वे तु राज्ञो नेदं स्वमिति निश्चयम्प्रति राज्ञः पुरुष इति सामान्यसम्बन्धवत्ताबुद्धेः प्रतिबन्धकत्वानापत्तेः । विशेषरूपेण स्वत्वाऽभाववत्तानिश्चयम्प्रति सामान्यसम्बन्धवत्ता